________________
१२२
दशवैकालिक-मूलसूत्रं-४/-/३२ सेजे पुण इमे अनेगे बहवे तसा पाणा, तंजहा-अंडया पोयया जराउया रसयासंसेइमा संमुच्छिमा उब्भिया उववाइया। जेसिं केसिंचि पाणाणं अभिकंतं पडिक्तं संकुचियं पसारियंरुयं भंतं तसियं पलाइयं आगइगइविनयाजे यकीडपयंगाजा यकुंथपिपीलिया सव्वे बेइंदिया सव्वे तेइंदिया सब्वे चउरिदिया सव्वे पंचिदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुआ सव्वे देवा सव्वे पाणा परमाहम्मिआ। एसो खलु छट्ठो जीवनिकाओ तसकाउत्ति पवुच्चइ।
वृ.श्रूयते तदिति श्रुतम्-प्रतिविशष्टार्थप्रतिपादनफ वाग्योगमात्रं भगवता निसृष्टिमात्मीयश्रवणकोटरप्रविष्टंक्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगृहीतमिति पर्यायाः, 'मये' त्वात्मपरामर्शः, आयुरस्यास्तीत्यायुष्मान् तस्यामन्त्रणं हे आयुष्यमन्!, कः कमेवमाह ?-सुधर्मस्वामी जम्बूस्वामिनमिति, 'तेने'ति भुवनभर्तुः परामर्शः, भगःसमग्रैश्वर्यादिलक्षण इति, उक्तं च
"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः।
धर्मस्याथ प्रयत्नस्य, षण्णां भगइतीङ्गना॥" सोऽस्यास्तीति भगवांस्तेन भगवता-वर्धमानस्वामिनेत्यर्थः, 'एव'मिति प्रकारवचन:शब्दः, 'आख्यात'मिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इहखलु षड्जीवनिकायनाध्ययनम्, अस्तीति वाक्यशेषः, 'इहे'ति लोके प्रवचने वा, खलुशब्दादन्यतीर्थकृत्प्रवचनेषु च, ‘षड्जीवनिकाये'ति पूर्ववत्, 'नामे'त्यभिधानम्, 'अध्ययन'मिति पूर्ववदेव। इहच 'श्रुतं मये' त्यनेनात्मपरामर्शेनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तंच,
"एगंतखणियपक्खे गहणं चिअसव्वहान अत्थाणं।
अनुसरणसासणाइंकुओउतेलोगसिद्धाइं? ॥" तथा 'आयुष्म'निति च प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवत इत्याह, तदनुकम्पाप्रवृत्तेरिति, उक्तं च -
"आमे घडे निहत्तं जहाजलं तं घडं विनासेइ।
इअसिद्धंतरहस्सं अप्पाहारं विनासेइ॥" आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, तथा तेन भगवता एवमाख्यात' मित्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतन्त्र्यप्रदर्शनेनन सर्वज्ञेन अनात्मवता अन्यतस्थाभूतात्सम्यगनिश्चित्य परलोकदेशना कर्येत्येतदाह, विपर्ययसंभवाद्, उक्तं च
"किं इत्तो पावयरं? संमंअणहिगयधम्मसब्भावो।
___ अन्नं कुदेसणाए कट्टयरागंमि पाडे॥" अथवाऽन्यथा व्याख्यायते सूत्रेकदेश:-'आउसंतेण'तिभगवत एव विशेषणम्, आयुष्मता भगवता-चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरम्परागमस्यजीवनविमुक्तानदिशुद्धवक्तुश्चापोहमाह, देहाद्यभावेन तथाविधप्रयत्नाभावात्,
"वयणंनकायजोगाभावेन यसोअणादिसुद्धस्स।
गहणंमि य नो हेऊ सत्थं अत्तागमो कहनु॥" अथवा 'आवसंतेणं'ति गुरमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org