________________
अध्ययनं - ४, उद्देशकः - [नि. २३० ]
मित्येतदाह, ज्ञानादिवृद्धिसद्भावाद्, उक्तं च
-
"नाणस्स होइ भागी थिरयरओ दंसणे चरिते य।
धन्नाआवकहाए गुरुकुलवासं न मुंचति ॥"
अथवा ‘आमुसंतेणं' आमृशता भगवत्पादारविन्दयुगलमुत्तमाङ्गेन, अनेन च विनयप्रतिपत्तेर्गरीयस्त्वमाह, विनयस्य मोक्षमूलत्वात्, उक्तं च
"मूलं संसारस्सा होंति कसाया अनंतपत्तस्स । विनओ ठाणपत्तो दुक्खविमुक्खस्स मोक्खस्स ॥"
कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह-एषा षड्जीवनिकायिका केन प्रवेदिता प्ररूपिता वेति ?, अत्रोच्यते, तेनैव भगवता यत आह-'समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ते' ति, साच तेन 'श्रमणेन' महातपस्विना ‘भगवता' समग्रैश्वर्यादियुक्तेन 'महावीरेण' 'शूर वीर विक्रान्ता' विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, उक्तं च
-
"विदारयति यत्कर्म, तपसा च विराजते ।
Jain Education International
तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥ "
महांश्चासौ वीरश्च महावीरः तेन महावीरेण, 'काश्यपेने 'ति काश्यपसगोत्रेण, 'प्रवेदिता' नान्यतः कुतश्चिदाकर्ण्य ज्ञाता किं तर्हि ?, स्वयमेव केवलालोकेन प्रकर्षेण वेदिता प्रवेदिता - विज्ञातेत्यर्थः, तथा 'स्वाख्याते 'ति सदेवमनुष्यासुरायां पर्षदि सुष्ठु आख्यात् स्वाख्याता, तथा 'सुप्रज्ञप्ते 'ति सुष्ठु प्रज्ञप्ता यथैवख्याता तथैव सुष्ठु - सूक्ष्मपरिहारासेवनेन प्रकर्षेण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड्जीवनिकायिकां 'श्रेयो मेऽध्येतुं' श्रेयः - पथ्यं हितं, ममेत्यात्मनिर्देशः, छान्दसत्वात्सामान्येन ममेत्वामनिर्देश इत्यन्ते, ततश्च श्रेय आत्मनोऽवेतुम्, 'अध्येतु' मिति पठितुं श्रोतुं भावचितुं, कृत इत्याह-'अध्ययनं धर्मप्रज्ञप्तिः ' निमित्तकारणहेतुषु सर्वासां प्रायो दर्शन'मिति वचनात् हेतौ प्रथमा, अध्ययनत्वाद् - अध्यात्मानयनाच्चेतसो विशुद्धयापादनादित्यर्थः, एतदेव कृत इत्याह- 'धर्मप्रज्ञप्ते : ' प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्ति: धर्मप्रज्ञप्तिः ततो धर्मप्रज्ञप्तेः कारणाच्चेतसो विशुद्धयापादनाश्च श्रेय आत्मनोऽध्येतुमिति । अन्ये तु व्याचक्षतेअध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतयाऽनुवादमात्रमेतदिति ॥
शिष्यः पृच्छत्ति - ' कतरा खल्वि 'त्यादि, सूत्रमुक्तार्थमेव, अनेनैतद्दर्शयति- विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह- 'इमा खल्वि'त्यादि सूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति ।
'तंजहा - पुढविकाइया' इत्यादि, अत्र 'तद्यथे' त्युदाहरणोपन्यासार्थः, पृथिवी - काठिन्यादिलक्षणा प्रतीता सैव कायः शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः स्वार्थिकष्ठक, आपो- द्रवाः प्रतीता एव ता एव कायः शरीरंयेषां तेऽप्कायाः अप्काया एव अप्कायिकाः । तेज-उष्णलक्षणं प्रतीतं तदेव कायः शरीरं येषां ते तेजः काया: तेज: काया एव तेज:कायिकाः । वायुः-चलनधर्मा प्रतीत एव स एव काय:- शरीरं येषां ते वायुकायाः वायुकाया एव वायुकायिकाः । वनस्पतिः - लतादिरूपः प्रतीतः, स एव कायः शरीरं येषां ते वनस्पतिकायाः,
-
१२३
-
For Private & Personal Use Only
www.jainelibrary.org