SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११६ दशवैकालिक-मूलसूत्र-४/-/३२ शणापेक्षयाऽपि न निरन्वयनाशधर्मा, एवमपि परिमितकालावस्थायी कैश्चिदिष्यते'कप्पट्ठाई पुढवी भिक्खूवे'ति वचनात्तदपोहायाह-'शाश्वत' इति सर्वकालावस्थायी, कुत इत्याह-'भावत्वे सति' वस्तुत्वेसतीत्यर्थः, 'जन्माभावात्' अनुत्पत्तेः 'नभोवद्' आकाशवद्विज्ञेयः, भावत्वेसतीति विशेषणं खरविषाणादिव्यवच्छेदार्थमिति गाथार्थः ।। हेत्वन्तराण्याह.. भा.[४३] संसाराओआलोयणाउतह पच्चभिन्नभावाओ। खणभंगविघायत्थंभणिअंतेलोक्कदंसीहिं।। वृ. संसारा' दिति संसरणं संसारस्तस्मात्, स एव नारकः स एव तिर्यगादिरिति नित्यः, 'आलोचना'दिति आलोचनं-करोम्यहं कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्यः, तथा प्रत्यभिज्ञाभावात्' स एष इति प्रत्यभिज्ञाप्रत्यय आविद्वदङ्गनादिसिद्धः तदभेदग्राहीति नित्य इति, उक्ताभिधानफलमाह- क्षणभङ्गविधातार्थ' निरन्वयक्षणिकवस्त-वादविधातार्थ भणितं 'तैलोक्यदर्शिभिः' तीर्थकरैः एतदनन्तरोदितं, न पुनरेष एव परमार्थ इति गाथार्थः।। एतदेवदर्शयतिभा.[४४] लोगे वेए समए निच्चो जीवो विभासओ अम्हं। इहरा संसाराई सव्वंपि न जुज्जए तस्स। वृ.'नैनं छिन्दन्ति शस्त्राणी'त्यादिवचनप्रामाण्यात्, वेदे स एष अक्षयोऽज' इत्यादिश्रुतिप्रामाण्यात् समये 'न प्रकृतिर्न विकृतिः पुरुष' इति वचनप्रामाण्यात्, किमित्याहनित्यो जीव:अप्रच्युतानुत्पन्नस्थिरैकस्वभावः, एकान्तनित्य एव, नचैतन्याय्यम्, एकस्वभाव-तया संसरणादिव्यवहारोच्छेदप्रसङ्गादिति वक्ष्यति, अत आह-'विभाषयाऽस्माकं' विकल्पेन-भजनया स्यानित्य इत्यादिरूपया द्रव्यार्थादेशान्नित्यः पर्यायार्थादेशादनित्य इत्यर्थः, 'इतरथा' यद्येवं नाभ्युपगम्यतेततः संसारादि' संसारालोचनादिसर्वमेवनयुज्यते तस्य' आत्मनः, स्वभावान्तरानापत्त्या एकस्वभावतया वार्तमानिकभावातिरेकेण भावान्तरानापत्तेः, एवममूर्तत्वान्यत्वयोरपि विभाषा वेदितव्या, अन्यथा व्यवहाराभावप्रसङ्गात्, एकान्तामूर्तस्यैकान्तदेहभिन्नस्य चातिपाताद्यसंभवादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रत्वात्प्रारम्भस्येति गाथार्थः।। एवमन्य-त्वादिद्वारत्रयं व्याख्यायाधिकृतनियुक्तिगाथांव्याचिख्यासुराहभा.[४५] कारणअविभागाओ कारणअविनासओयजीवस्स। निच्चत्तं विनेयं आगासपडाणुमाणाओ। वृ.कारणाविभागात्' पटादेस्तन्त्वादेरिवकारणविभागाभावादित्यर्थः, कारणाविनाशतश्च' कारणाविनाशश्च कारणनामेवाभावात्, किमित्याह-'जीवस्य' आत्मनो नित्यत्वं विज्ञेयम्, कुत इत्याह-'आकाशपटानुमानात्' अत्रानुमानशब्दो दृष्टान्तवचनः, आकाशपटदृष्टान्तात्। ततश्चैवं प्रयोगः-नित्य आत्मा, स्वकारणविभागाभावाद्, आकाशवत्, तथा कारणविनाशाभावाद्, आकाशवदेव, यस्त्वनित्यस्तस्य कारणविभागभावः कारणविनाशभावो वा यथा पटस्येति व्यतिरेकः, पटाद्धि तन्तवो विभज्यन्ते विनश्यन्ति चेति नित्यत्वसिद्धिः । नित्यत्वादमूर्तः, अमूर्तत्वाद्देहादन्य इति गाथार्थः॥ नियुक्तिगाथायां कारणविभागाभावात्कारणविनाशाभावाच्चेति द्वारद्वयं व्याख्यायसाम्प्रतंबन्धस्य प्रत्ययाभावादिति व्याचिख्यासुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy