________________
अध्ययनं-४, उद्देशकः - [नि. २२५]
११५ तज्जीवतस्सरियमयधायत्थं इमं भणियं। वृ.अन्यो देहादिति द्वारमधुना, तदेतद्वयाख्याते-अन्यो देहात्, जीव इति गम्यते, गृहादिगतपुरुषवदिति दृष्टान्तः, तद्भावेऽपि तत्रानियमतो भावादिति हेतुरम्यूह्यः, न चासिद्धोऽयं, मृतदेहेऽदर्शनात्, प्रयोगफलमाह-तज्जीवतच्छरीवादिमतविधातार्थम् 'इदं' प्रयोगरूपं भणितमिति गाथार्थः ।। प्रयोगान्तरमाहभा.[३८] हिंदियाइरित्तो आयाखलु तदुवलद्धअत्थाणं।
तव्विगमेऽविसरणओ गेहगवक्खेहिं पुरिसो व्व। वृ. खलुशब्द: विशेषणार्थत्वात्कथञ्चिद्देहेन्द्रियातिरिक्त आत्मेति प्रतिज्ञार्थः, 'तदुपलब्धानार्थाना मितिसंभवतः परामर्शत्वात् इन्द्रियोपलब्धार्थानां तद्विगमेऽपि' इन्द्रियविगमेऽपि स्मरणादिति हेत्वर्थः, स्मरन्ति चान्धबधिरादयः पूर्वानुभूतं रूपादीति, गेहगवाक्षैः, पुरुषवदिति दृष्टान्तः । प्रयोगस्तु-कथञ्चिद्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवदिति गाथार्थः।। इन्द्रियोपलब्धिमत्त्वाशङ्कापोहायाहभा.[३९] नउइंदियाइंउवलद्धिमंतिविगएसुविसयसंभरणा।
जह गेहगवक्खेहिं जो अनुसरिया य उवलद्धा॥ वृ.न पुनरिन्द्रियाण्येवोपलब्धिमन्ति-द्रष्टणि, कुत इत्याह-विगतेष्विन्द्रियेषु विषयसंस्मरणात्-तद्गृहीतरूपाद्यनुस्मृतेरन्धबधिरादीनामिति, निदर्शनमाह-यथा गेहगवाक्षैः करणभूतैः दृष्टानर्थाननुस्मरन् योऽनुस्मर्ता स उपलब्धा, नतु गवाक्षाः, एवमत्रापीति गाथार्थः ।। उक्तमेकेन प्रकारेणान्यत्वद्वारम्, अधुना अमूर्तद्वारावसरइत्याह भाष्यकार:भा.[४०] संपयममुत्तदारंअइंदियत्ताअछेयभेयत्ता। -
रूवाइविरहओवाअणाइपरिणामभावाओ॥ वृ.साम्प्रतममूर्तद्वारं, तद्वयाख्यायाते, अमूर्तो जीवः, अतीन्द्रियत्वात्' द्रव्येन्द्रियाग्राह्यत्वात्, अच्छेद्याभेद्यत्वात्-खङ्गशूलादिना, रूपादिविरहतश्च-अरूपत्वादित्यर्थः । तथा 'अनादिपरिणामभावा'दिति स्वभावतोऽनाद्यमूर्तपरिणामत्वादिति गाथार्थः। भा.[४१] छउमत्थाणुवलंभातहेवसव्वत्रुवयणओचेव।
लोयाइपसिद्धिओजीवोऽमुत्तोत्ति नायव्वो॥ वृ.छद्मस्थानुपलम्भाद्' अवधिज्ञानिप्रभृतिभिरपिसाक्षादगृह्यमाणत्वात्, तथैव सर्वज्ञवचनाच्चैव' सत्यवक्तृवीतरागवचनादित्यर्थः, 'लोकादिप्रसिद्धः' लोकादावमूर्तत्वेन प्रसिद्धत्वात्, आदिशब्दावेदसमयपरिग्रहः, अमूर्तो जीव इति ज्ञातव्यः, सर्वत्रैवेयं प्रतिज्ञेति गाथार्थः ॥ उक्तममूर्तद्वारम्, अधुना नित्यत्वद्वारप्रस्तावः, तथा चाह भाष्यकार:भा.[४१] निच्चेत्ति दारमहुणा निच्चो अविनासि सासओजीवो।
भावत्ते सइ जम्माभावाउनहं वविन्नेओ।। वृ.'नित्य' इति नित्यद्वारमधुनाऽवसरप्राप्तं, तद्वयाचिख्यासयाऽऽह-नित्यो जीव इति, एतावत्युच्यमाने परैरपि संतानस्य नित्यत्वाभ्युपगमात्सिद्धसाध्यतेति तन्निराकरणायाहअविनाशीJain Education International
For Private & Personal Use Only
www.jainelibrary.org