________________
११४
दशवैकालिक-मूलसूत्र-४/-/३२ दिभिः' ज्ञानदर्शनेच्छादिभिर्जीवो गृह्यते 'कायसंसृतो' देहसंगत इति गाथार्थः । असकृदनुमानादस्तित्वमुक्तं जीवस्य, अनुमानंच प्रत्यक्षपूर्वकं, न चैनं केचन पश्यन्तीति, ततश्चाशोभनमेतदित्याशङ्कयाहभा.[३४] अनिदियगुणंजीवं, दुन्नेयं मंसचक्खुणा।
सिद्धा पासंति सव्वन्नू, नाणसिद्धा य साहुणो॥ वृ.अनिन्द्रियगुणम्' अविद्यमानरूपादीन्द्रियग्राह्यगुणं जीवम्' अमूर्तत्वादिधर्मकं 'दुर्जेयं' दुर्लक्षं मांसचक्षुषा' छद्मस्थेन, पश्यन्ति सिद्धाः सर्वज्ञाः, अञ्जनसिद्धादिव्यवच्छेदार्थसर्वज्ञग्रहणं, ततश्च ऋषभादय इत्यर्थः, ज्ञानसिद्धाश्च साधवो-भवस्थकेवलिन इति गाथार्थः ।।
साम्प्रतमागमादस्तिस्तमाहभा.[३५] अत्तवयणं तु सत्थं दिट्ठा यतओ अइंदियाशंपी।
सिद्धी गहणाईणं तहेवजीवस्स विन्नेया॥ वृ.आप्तवचनं तु शास्त्रम्, आप्तो-रागादिरहितः, तुशब्दोऽवधारणे, आप्तवचनमेव, अनेनापौरुषेयव्यवच्छेदमाह, तस्यासंभवादिति । 'दृष्टा च तत' इति उपलब्धा च ततः-आप्तवचनशास्त्रात् 'अतीन्द्रियाणामपि' इन्द्रियगोचरातिक्रान्तानामपि, 'सिद्धिः ग्रहणादीना'मिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थः, तथैव जीवस्य विज्ञेयेति, अतीन्द्रियस्वाप्याप्तवचनप्रामाण्यादिति गाथार्थः ।। मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारम्, अधुनाऽन्यत्वादिद्वारत्रयव्याचिख्यासुराहभा.[३६] अन्नत्तममुत्ततं निच्चत्तं चेव भण्णए समयं।
कारणअविभागईहेऊहिंइमाहिगाहाहिं।। वृ.अन्यत्वं देहाद् अमूर्तत्वं स्वरूपेण नित्यत्वं चैव-परिणामिनित्यत्वं भण्यते 'समकम्' एकैकेन हेतुना त्रितयमपि युगपदिति-एककालमित्यर्थः, 'कारणाविभागादिभिः' वक्ष्यमाणलक्षणैर्हेतुभिः ‘इमाभिः' तिसृभिनियुक्तिगाथाभिरेवेति गाथार्थः।। नि.[२२५] कारणविभागकारणविनासबंधस्स पच्चयाभावा। ..
विरुद्धस्सय अत्थस्सापाउब्भावाविनासाय॥ वृ.कारणविभागकारणविनाशबन्धस्य प्रत्ययाभावा'दिति अत्राभावशब्दः प्रत्येकभिसंबध्यते, कारणविभागाभावात् नखलजीवस्य पटादेरिवतन्त्वादिकारणविभागोऽस्ति, कारणाभावादेवा एवं कारणविनाशाभावेऽपि योज्यं, तथा बन्धस्य-ज्ञानावरणादिपुद्गलयोगलक्षणस्य प्रत्ययाभावात्हेतुत्वानुपपत्तेः, बन्धस्येति बध्यमानव्यतिरिक्तबन्धज्ञापनार्थमसमासः, व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्शनार्थमिति, तथा विरुद्धस्य चार्थस्य पटादिनाशे भस्मादेरिव 'अप्रादुर्भावादविनाशाच्च' अप्रादुर्भावेऽनुत्पत्तौ सत्यामविनाशाच्च हेतोः जीवस्य नित्यत्वं, नित्यत्वादमूर्तत्वम्, अमूर्तत्वाच्च देहादन्यत्वमिति प्रतिपत्त्यानुगुण्यतो व्यत्ययेन साध्यनिर्देशः । वक्ष्यति च नियुक्तिकार:-'जीवस्य सिद्धमेवं, निच्चत्तममुत्तमन्नतं' इति गाथासमासार्थः । व्यासार्थस्तु भाष्यादवसेयः, तत्राव्युत्पन्नविनेयासंमोहनिमित्तं यथोपन्यासंतावद्वाराणि व्याख्यायपश्चान्नि
युक्तिकाराभिप्रायेण मीलयिष्यतीत्यत आह___ भा.[३७] अन्नत्ति दारमहुणा अन्नो देहा गिहाउ पुरिसो व्व।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org