________________
११३
अध्ययनं-४, उद्देशकः- [नि. २२५]
सव्वं निरत्थयमेयं जइ जीवो न विज्जई।। वृ.'प्राणिदयातपोनियमाः' करुणोपवासहिंसाविरत्यादिरूपाः, तथा 'ब्रह्म' ब्रह्मचयं 'दीक्षा च' यागलक्षणा 'इन्द्रियनिरोधः' प्रव्रज्याप्रतिपत्तिरूपः, सर्वं 'निरर्थकं' निष्फलमेतत्, यदि जीवो न विद्यते परलोकयायोति गाथार्थः॥ किंच-'शिष्टाचरितो मार्गः, शिष्टैरनुगन्तव्य' इति, तन्मार्गख्यापनायाहभा.[३०] लोइया वेइया चेव, तहा सामाइया विऊ।
निच्चो जीवो पिहो देहा, इह सव्वे ववत्थिया।। वृ. लोके भवा लोके वा विदिता इति लौकिका-इतिहासादिकर्तारः, एवं वैदिकाश्चैवविद्यवृद्धाः, तथा सामायिका:-त्रिपिटकादिसमयवृत्तयो 'विद्वांसः' पण्डिताः, नित्यो जीवो, नानित्यः, एवं पृथग् 'देहात्' शरीरादित्येवं सर्वे व्यवस्थिताः, नान्यथेति गाथार्थः ।।
एतदेवव्याचष्टे - भा.[३१] लोगे अच्छेज्जभेज्जो वेए सुपरीसदद्धगसियालो।
समएज्जमासिगओतिविहो दिव्वाईसंसारो॥ वृ.लोकेऽच्छेद्योऽभेद्य आत्मा पठ्यते, यथोक्तं गीतासु
"अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते।
नित्यः संततगः स्थानुरचलोऽयं सनातनः ।।" इत्यादि तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति, यथोक्तम् - "शृगालो वै एष जायते यः सपुरीषो दह्यते, अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुर्भवन्ति" इत्यादि। तथा समये "अहमासीद्गजः" इति पठ्यते, तथा च बुद्धवचनम्
___ "अहमासंभिक्षवो हस्ती षड्दन्तः शङ्खसंनिभः।।
शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः ।।" इत्यादि। तथा त्रिविधो दिव्यादिसंसार: कैश्चिदिष्यते, देवमानुषतिर्यग्भेदेन, आदिशब्दाच्चतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थः । अत्रैव प्रकारान्तरेण तदस्तित्वमाहभा.[३२] अत्थि सरीरविहाया पइनिययागारयाइभावाओ।
कुंभस्स जह कुलालो सो मुत्तो कम्मजोगाओ॥ वृ. अस्ति शरीरस्य-औदारिकादेविधाता, विधातेति कर्ता, कुत इत्याह-'प्रतिनियताकारदिसद्भावात्' आदिमत्यप्रतिनियताकारत्वादित्यर्थः, दृष्टान्तमाह-कुम्भस्य यथा कुलालो विधाता। कुलालवदेवमसावपि मूर्तः प्राप्नोतीति विरुद्धमाशङ्कय परिहरनाह-'स' आत्मा यः शरीरविधाता असौ मूर्तः 'कर्मयोगा'दिति मूर्तकर्मसंबन्धादिति गाथार्थः।।
अत्रैव शिष्यव्युत्पत्तयेऽन्यथा तदग्रहणविधिमाहभा.[३३] फरिसेण जहा वाऊ, गिज्झई कायसंसिओ।
नाणाईहिंतहा जीवो, गिज्झई कायसंसिओ॥ वृ.'स्पर्शेन' शीतादिना यथा वायुर्गृह्यते 'कायसंसृतो' देहसंगतः अदृष्टोऽपि, तथा 'ज्ञाना27/8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org