________________
अध्ययनं-४, उद्देशकः - [नि. २२५]
११७ भा.[४६] हेउप्पभवो बंधो जम्मानंतरहयस्सनो जुत्तो।
- तज्जोगविरहओखलु चोराइघडानुमाणाओ॥ वृ. 'हेतुप्रभवो' हेतुजन्मा 'बन्धो' ज्ञानावरणादिपुद्गलयोगलक्षणः, 'जन्मानन्तरहतस्य' उत्पत्त्यनन्तरविनष्टस्य 'न युक्तो' न घटमानः तद्योगविरहत' इति तैः--बन्धहेतुभिर्मिथ्यादर्शनाविरतिप्रमादकषाययोगलक्षणैर्यो योगः-संबन्धस्तद्विरहतः-तदभावादेव, खलुशब्दस्यावधारणार्थत्वात्, ‘चौरादिघटानुमाना' दित्यनुमानशब्दो दृष्टान्तवचनः, चौरादिघटादिदृष्टान्तात्, न हि उत्पत्त्यनन्तरविनाशी चौरश्चौर्यक्रियाभावेन बध्यते, स्थायी हि घटो जलादिना संयुज्यते इति व्यतिरेकार्थः, प्रयोगश्चात्र-न क्षणिक आत्मा, बन्धप्रत्ययत्वाच्चौरवत्, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववदिति गाथार्थः ॥ नियुक्तिगाथायां बन्धस्य प्रत्ययाभावादिति व्याख्यातम्,
अधुना विरुद्धस्य चार्थस्याप्रादुर्भावविनाशाच्चे'ति व्याख्यायतेभा.[४७] अविनासी खलु जीवो विगारनुवलंभओजहागासं।
उवलब्भंति विगारा कुंभाइविनासिदव्वाणं॥ वृ.अविनाशी खलु जीवो, नित्य इत्यर्थः, कुत इत्याह विकारानुपलम्भात्' घटादिक्निाशे कपालादिवद्विशेषादर्शनाद्, यथाऽऽकाशम्-आकाशवदित्यर्थः, एतदेवस्पष्टयति-'उपलभ्यन्ते विकारा' दृश्यन्ते कपालादयः कुम्भादिविनाशिद्रव्याणां, न चैवमत्रेत्यभिप्रायः, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववत्, इति गाथार्थः । प्रकृतसंबद्धामेव नियुक्तिगाथामाहनि.[२२६] निरामयामयभावा बालकयाणुसरणादेवत्थाणा।
सुत्ताईहिं अगणहा जाईसरणा थणभिलासा।। वृ.'निरामयामयभावात्' निरामयस्य-नीरोगस्याऽऽमयभावाद्, रोगोत्पत्तेः, उपलक्षणं चैतत् सामयनिरामयभावस्य, तथा चैवं वक्तार उपलभ्यन्ते-पूर्वं निरामयोऽहमासं सम्प्रति सामयो जातः सामयो वा निरामय इति, नचैतन्निरन्वयलक्षणविनाशिन्यात्मन्युपपद्यते, उत्पत्त्यनन्तराभावादिति प्रयोगार्थः, प्रयोगस्तु-अवस्थित आत्मा, अनेकावस्थानुभवनात्, बालकुमाराद्यवस्थानुभवितृदेवदत्तवत्, नित्यत्वादमूर्तः, अमूर्तत्वाद्देहादन्यइति योजना सर्वत्र कार्या। तथा बालकृतानुस्मरणात्' कृतशब्दोऽत्रानुभूतवचनः, ततश्च बालानुभूतानुस्मरणात्, तथा च बालेनानुभूतं वृद्धोऽप्यनु-स्मरन् दृश्यते, नच अन्येनानुभूतमन्यः स्मरति अतिप्रसङ्गात्नचेदमनुस्मरणं भ्रान्तं, बाधाऽसिद्धेः, नचहेतुफलभावनिबन्धनमेतत्, नीरन्वयक्षणविनाशपक्षेतस्यैवासिद्धेः, हेतोरनन्तरक्षणेऽभावापत्तेः, असतश्चसद्भावविरोधादिति प्रयोगार्थः, प्रयोगस्तु-अवस्थित आत्मा, पूर्वानुभूतार्थानुस्मरणात्, तदन्यैवंविधपुरुषवत्। उपस्थानादिति कर्मफलोपस्थानमत्रगृह्यते, यद्येनोपात्तं कर्म स एव तत्फलमुपभुङ्क्ते, अन्यश्च क्रियाकालोऽन्यश्च फलकालः, एकाधिकरणं चैतद्वयम्, अन्यथा स्वकृतवेदनासिद्धेः, अन्यकृतान्योपभोगस्य निरुपपत्तिकत्वात्, कृत-नाशाकृतभ्यागमप्रसङ्गात्, संतानपक्षेऽपि कर्तृभोक्तृसंतानिनोर्नानात्वाविशेषात्, शक्ति भेदात्, तस्यैव तथाभावाभ्युपगमे नित्यत्वापत्तेरिति प्रयोगार्थः, प्रयोगश्च-अवस्थित आत्मा, स्वकृतकर्मफलवेदनात्, कृषीवलादिवत्।।
श्रोत्रादिभिरग्रहणात्-श्रोत्रादिभिरिन्द्रियैरपरिच्छित्तेः, न च श्रोत्रादिभिरपरिच्छिद्यमानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org