________________
अध्ययनं - ४, उद्देशक : - [ नि. २२० ]
१०७
अत्र च सचितद्रव्यषट्केनाधिकारा इति गाथार्थ : || आह-अत्र द्वयाद्यनभिधानं किमर्थम् ?, उच्यते, एकषडभिधानतः आद्यन्तग्रहणेन तद्गतेरिति । व्याख्यातं षट्पदम्, अधुना जीवपदमाहनि. [२२१] जीवस उनिक्खेवो परूवणा लक्खणं च अत्थितं । अन्नामुत्ततं निच्च कारगो देहवावित्तं ॥ गुणिउड्डगइत्ते या निम्मसाफल्लता य परिमाणे । जीवस्स तिविहकालम्मि परिक्खा होइ कायव्वा ॥
नि. [२२२]
वृ. एतद्वारगाथाद्वयम्, अस्य व्याख्या- जीवस्य तु 'निक्षेपो' नामादिः, 'प्ररूपणा' द्विविधाश्च भवन्ति जीवा इत्यादिरूपा लक्षणं च आदानादि 'अस्तित्वं' सत्त्वं शुद्धपदवाच्यत्यादिना 'अन्यत्त्वं' देहात् 'अभूर्तत्वं' स्वतः 'नित्यत्वं' विकारानुपलम्भेन 'कर्तुत्वं' स्वकर्मफलभोगात् 'देहव्यापित्वं' तत्रेव तल्लिङ्गोपलब्ध्या 'गुणित्वं' योगादिना 'ऊर्ध्वगतित्वम्' अगुरुलघुभावेन 'निर्मा (र्म) यता' विकाररहितत्वेन, सफलता च कर्मण: 'परिमाण' लोकाकाशमात्र इत्यादि एवं जीवस्य 'त्रिविधकाल' इति त्रिकालविषया, परीक्षा भवति कर्तव्या इति द्वारगाथाद्वयसमासार्थः॥व्यासार्थस्तु भाष्यादवसेयः, तथा च निक्षेपमाह
नि. [२२३]
नामंठवणाजीवो दव्वजीवो य भावजीवो या
ओह भवग्गहणमिय तब्भवजीवे य भावम्मि ॥
वृ.‘नामस्थापनाजीव' इति जीवशब्दः प्रत्येकभिसंबध्यते, नामजीवः स्थापनाजीव इति, तथा द्रव्यजीवश्च 'भावजीवश्च' वक्ष्यमाणलक्षणः, तत्र 'ओघ' इति ओघजीव:, 'भवग्रहणे चे 'ति भवजीवः, ‘तद्भवजीवश्च' तद्भव एवोत्पन्नः, 'भावे' भावजीव इति गाथासमासार्थः ॥
व्यासार्थं त्वाहभा. [६]
नामंठवण गयाओ दव्वे गुणपज्जवेहि रहिउति । तिविहो य होइ भावे ओहे भव तब्भवे चेव ॥
वृ. नामस्थापने गते, क्षुण्णत्वादिति भावः, 'द्रव्य' इति द्रव्यजीवो 'गुणपर्यायाभ्यां' चैतन्यमनुष्य-त्वादिलक्षणाभ्यां रहितः, बुद्धिपरिकल्पितो, न त्वसावित्थंविधः संभवतीति, त्रिवि - धश्च भवति भाव इति, भावजीवत्रैविध्यमाह - ओघजीवो भवजीवस्तद्भजीवश्चेति, प्राग्गाथोक्तंमप्येतदित्थंविधभाष्यकारशैलीप्रामाण्यतोऽदुष्टमेवेति । अन्ये तु पठन्ति-' भावे उतिहा भणिओ, तं पुण संखेवओ वोच्छं' 'भाव' इति भावजीवः, 'त्रिधे 'ति त्रिप्रकारो 'भणितो ' निर्युक्तिकारेण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः ॥ तत्रौघजीवमाहआउकम् धरई तस्सेव जीवई उदए ।
भा. [७]
तस्सेव निज्जराएमओ त्ति सिद्धो नयमएणं ॥
वृ. 'सति' विद्यमान आयुष्यककर्मणि सामान्यरूपे ध्रियते सामान्येनैव तिष्ठति भवोदधौ, कथमित्थमवस्थानमात्राज्जीवत्वमस्येत्याङ्कयात्रैवान्वर्थयोजनामाह- 'तस्यैव' ओघायुष्ककर्णणो 'जीवत्युदये' उदये सति जीवत्यासंसारं प्राणान् धारयति, अतो जीवना - ज्जीव इति, तस्यैवौघायुष्ककर्मणो 'निर्जरया' क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्य:, विग्रहगतावपि तथाजीवनसद्भावात्, 'नयमतेने 'ति सर्वनयमतेनैव मृत इति गाथार्थः ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International