________________
१०८
उक्त ओजीवितविशिष्टो ओघजीवः, साम्प्रतं भवजीवं तद्भवजीवं चाहजेण य धरइ भवगओ जीवो जेण य भवाउ संकमई ।
भा.[८] *
दशवैकालिक - मूलसूत्रं - ४/-/३२
हितं भवा भव्विहं तब्भवे दुविहं । निक्खेवो त्ति गयं ॥
वृ. 'येन च' नारकाद्यायुष्केण 'ध्रियते' तिष्ठति 'भवगतो' नारकादिभवस्थितो जीवः, तथा 'येनच' मनुष्याद्यायुष्केण 'भवात्' नारकादिलक्षणात् 'संक्रामिति' याति, मनुष्या - दिभवान्तरमिति सामर्थ्याद्रम्यते, 'जानीहि' विद्धि, तदित्थंभूतं 'भवायुः ' भवजीवितं, चतुर्विधं नारकतिर्यड्मनुष्यामरभेदेन, तथा 'तद्भवे' तद्भवविषयम्, आयुरिति वर्तते, तच्चद्विविधं तिर्यक्तद्भवायुर्मनुष्यतद्भवायुश्च, यस्मात्तवेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते, नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति । अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः, जीवितं तु तद्विशेषणत्वादुक्तमिति गाथार्थः ॥
उक्तो निक्षेपः, इदानीं प्ररूपणामाह
भा. [९]
दुविहाय हुंति जीवा सुहुमा तह बायरा य लोगम्मि ।
सुहुमा य सव्वलोए दो चेव य बायरविहाणे ॥
वृ.' द्विविधाश्च' द्विप्रकाराश्च, चशब्दान्नवविधाश्च पृथिव्यादिद्विन्द्रियादिभेदेन भवन्ति जीवाः, द्वैविध्यमाह-सूक्ष्मास्तथा बादराश्च तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयाश्च बादरा इति, 'लोक' इति लोकग्रहणमलोके जीवभवनव्यवच्छेदार्थं, तत्र सूक्ष्माश्च सर्वलोक इति, चशब्दस्यावधारणार्थत्वात्सूक्ष्मा एव सर्वलोकेषु, न बादराः, कचित्तेषामसंभवात्, 'द्वे एव च' पर्याप्तकापर्याप्त लक्षणे 'बादरविधाने' बादरविधी, चशब्दात्सूक्ष्मविधाने च तेषामपि पर्याप्तकापर्याप्तकरूपत्वादिति गाथार्थः । एतदेव स्पष्टयन्नाह
भा. [१०]
सुहुमा य सव्वलोए परियावन्ना भवंति नायव्वा ।
दो चेव बायराणं पज्जत्तियरे अ नायव्वा ॥ परूवणादारं गयं ति ॥
वृ. सूक्ष्मा एव पृथिव्यादय: 'सर्वलोके' चतुर्दशरज्ज्वात्मके 'पर्यायापन्ना भवन्ति ज्ञातव्याः ' 'पर्यायापन्ना' इति तमेव सूक्ष्मपर्यायमापन्नाः भावसूक्ष्मा न तु भूतभाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदौ बादराणां पृथिव्यादीनां चशब्दात् सूक्ष्माणां च, 'पर्याप्तकेतरौ ज्ञातव्यौ' पर्याप्तकापर्याप्तकाविति गाथार्थः । उक्ता प्ररूपणा, अधुना लक्षणमुच्यते, तथा चाह भाष्यकार:लक्खणमियाणि दारं चिंधं हेऊ अ कारणं लिंगं ।
भा. [११]
लक्खणमिइ जीवस्स उ आयाणाई इमं तं च ॥
वृ. लक्षणमिदानीं द्वारमवसरप्राप्तम्, अस्य च प्रतिपत्त्यङ्गतया प्रधानत्वात्सामान्यतस्तावत्तत्स्वरूपमेवाह' चिह्नं हेतुश्च कारणं लिङ्गं लक्षणमिति । तत्र चिह्नम् उपलक्षणं, यथा पताका देवकुलस्य, हेतुः- निमित्तलक्षणं यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य कारणम्उपादानलक्षणं, यथा मृन्मसृणत्वं घटबलीयस्त्वस्य, लिङ्गं-कार्यलक्षणं यथा धूमोऽग्नेः पर्यायशब्दा वा एत इति । लक्षणमित्येतल्लक्षणं लक्ष्यतेऽनेन परोक्षं वस्त्वितिकृत्वा, जीवस्य पुनरादानादि लक्षणमनेकप्रकारमिदं तच्च वक्ष्यमाणामिति गाथार्थः ॥
,
नि. [२२४]
आयाणे परिभोगे जोगुवओगे कसायलेसा य ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org