SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अध्ययन-३, उद्देशकः - [नि. २१६] १०५ .. वृ.ते च ऋजुदर्शिनः कालमधिकृत्य यथाशक्तयेतत्कृर्वन्ति-'आयावयंति'त्ति सूत्रम्, अस्य व्याख्या-'आतापयन्ति-ऊर्ध्वस्थानादिना आतापनां कुर्वन्ति 'ग्रीष्मेषु' उष्णकालेषु, तथा 'हेमन्तेषु' शीतकालेषु 'अप्रावृता' इति प्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु' वर्षाकालेषु 'संलीना' इत्येकाश्रयस्था भवन्ति संयता:' साधवः 'सुसमाहिता' ज्ञानादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति सूत्रार्थः॥ . मू.(२९) परीसहरिऊदंता, धूअमोहा जिइंदिया। सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो। वृ. परिसह'त्ति सूत्रम्, अस्य व्याख्या-मार्गाच्यवननिर्जरार्थं परिषोढाव्याः परीषहाःक्षुत्पिपासादयः त एव रिपवस्तत्तुल्यधर्मत्वात्परीषहरिपवस्ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, समास: पूर्ववत्, न प्राकृते पूर्वापरपदनियमव्यवस्था नाणविमलजोण्हाग' मिति यथा, तथा धुतमोहा' विक्षिप्तमोहा इत्यर्थः, मोह:-अज्ञानं, तथा 'जितेन्द्रियाः' शब्दादिषुरागद्वेषरहिता इत्यर्थः, त एवंभूताः 'सर्वदुःखपक्षयार्थं' शारीरमानसशेषदुःखप्रक्षयनिमित्तं 'प्रकामन्ति' प्रवर्तन्ते, किंभूताः?-'महर्षयः' साधव इति सूत्रार्थः॥ मू.(३०) दुक्कराइंकरित्ताणं, दुस्सहाई सहेत्तु या । केइत्थ देवलोएसु, केइ सिझंति नीरया। वृ.इदानीमेतेषां फलमाह-'दुक्कराई'त्ति सूत्रम्, अस्य व्याख्या-एवं दुष्कारिणि कुत्वौद्देशिकादित्यागादीनि तथा दुःस्हानि सहित्वाऽऽतापनादीनि केचनतत्र देवलोकेषु' सौधर्मादिषु, गच्छन्तीति वाक्यशेषः। तथा केचन सिद्धयन्ति, तेनैव भवेन सिद्धिं प्राप्नुवन्ति। वर्तमाननिर्देशः. सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः। 'निरजस्का' इत्यष्टविधकर्मविप्रमुक्ताः, नत्वेकेन्द्रिया इव कर्मयुक्ता एवेति सूत्रार्थः॥ मू.(३१) खवित्ता पुवकम्माइं, संजमेण तवेण या सिद्धिमग्पणुप्पत्ता, ताइणो परिणिब्वुड।त्ति बेमि। वृ.येऽपिचैवंविधानुष्ठानतो देवलोकेषुगच्छन्ति तेऽपि ततश्चयुता आर्यदेशेषुसुकुले जन्मावाप्य शीघ्रं सिद्धयन्त्येतदाह-'खवित्त'त्ति सूत्रम्, अस्य व्याख्या-ते देवलोकच्युताः क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्वाह-'संयमेन' उक्तलक्षणेन तपसा च, एव प्रवाहेण 'सिद्धिमार्ग' सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातारआत्मादीनां परिनिर्वान्ति' सर्वथा सिद्धि प्राप्नुवन्ति, अन्ये तु पठन्ति-'परिनिव्वुड'त्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाच्चायमेव पाठो ज्यायान्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः, साम्प्रतं नयाः ते च पूर्ववद्रष्टव्याः। अध्ययन-३समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिक सुत्रे द्वितीयअध्ययस्य । भद्रबाहुस्वामिविरचिता नियुक्ति एवं हरिभद्रसूरि विरचिता टीका परि समाप्ता । ( अध्ययन-४ षड्जीवनिकाया ) ' मू. (३२/१)सुअं मे आउसंतेणं भगवआ एवमक्खायं इह खलु छज्जीवणियानामज्झयणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy