SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०४ दशवैकालिक - मूलसूत्रं-३/-/२३ च तथा 'इक्षुखण्डंच' लोकप्रतीतम्, अनिर्वृतग्रहणं सर्वत्राभिसंबध्यते, अनिर्वृत्तम-अपरिणतमनाचरितमिति, इक्षुखण्डंचापरिणतं द्विपर्वान्तं यद्वर्तते ३२-३३-३४, तथा 'कन्दो' वज्रकन्दादिः ३५, 'मूलं च' सट्टामूलादि, सचित्तमनाचरितम् ३६, तथा 'फलं' त्रपुष्यादि ३७, 'बीजं च' तिलादि ३८, 'आमकं' सचित्तमनाचरितमिति सूत्रार्थः ॥ मू. ( २४ ) सोवच्चले सिंघवे लोणे, रोमालोणेय आमए । सामुद्दे पंसुखाये य, कालालोणे य आमए ॥ वृ. किंच- 'सोवच्चले 'त्ति सूत्रम्, अस्य व्याख्या - सौवर्चलं ३९, सैन्धवं ४०, 'लवणं च' सांभरिलवणं ४१, रुमालवणं च ४२, आमकमिति सचित्तमनाचरितम्, सामुद्रं समुद्रलवणमेव ४३, 'पांशुक्षारश्च' उषरलवणं ४४, 'कृष्णलवणं च ' सैन्धवलवणपर्वतैक - देशजम् ४५, आमकमनाचरितमिति सूत्रार्थः ॥ मू. (२५) धुवणे त्ति वमणेय, वत्थीकम्म विरेयणे । अंजणे दंतवणे य, गायाब्भंगविभूसणे ॥ वृ. किंच- 'धूवणे 'ति सूत्रम्, अस्य व्याख्या- धूपनमित्यात्मवस्त्रादेरनाचरितम्, प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ते व्याचक्षते ४६, वमनं मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४८, विरेचनं दन्त्यादिना ४९, तथा अञ्जनं रसाञ्जनादिना - ५०, दन्तकाष्ठंच प्रतीतं ५१, तथा गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेव ५३, इति । सव्वमेयमणाइन्नं, निग्गंथाण महेसिणं । संजमंमि अ जुत्ताणं, लहुभूयविहारिणं ॥ ! मू. (२६) वृ. क्रियासूत्रमाह- 'सव्वमेयं' ति सूत्रम्, अस्य व्याख्या-सर्वमेतद्-औद्देशिकादि यदनन्तमुक्तमिदमनाचरितं, केषामित्याह-निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्तेसंयमे, चशब्दात्तपसि युक्तानाम् अभियुक्तानां 'लघुभूतविहारिणां' लघुभूतो वायुः, ततश्च वायु-भूतोऽप्रतिबद्धतया विहारो येषां ते लघुभूतविहारिणस्तेषां निगमनक्रियापदमेतदिति सूत्रार्थः । किमित्यनाचरितं ?, यतस्त एवंभूता भवन्तीत्याह मू. (२७) Jain Education International पंचासवपरिण्णाया, तिगुत्ता छसु संजया । पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ॥ वृ. 'पञ्चाश्रवा' हिंसादय: 'परिज्ञाता' द्विविधया परिज्ञया- ज्ञपरिज्ञया प्रत्याख्यान- परिज्ञया च परि-समन्ताज्ज्ञाता यैस्ते पञ्चाश्रवपरिज्ञाताः, आहिताग्नयादेराकृतिगणत्वान्न निष्ठायाः पूर्वनिपात इति समासो युक्त एव, परिज्ञातपञ्चाश्रवा इति वा, यत एव चैवंभूता अत एव 'त्रिगुप्ता' मनोवाकायगुप्तिभिः गुप्ता । 'षट्सु संयताः' षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, 'पञ्चनिग्रहणा' इति निगृह्णन्तीति निग्रहणाः कर्तरिल्युट् पञ्चानां निग्रहणाः पञ्चनिग्रहणाः, पञ्चानामितीन्द्रियाणां, ‘धीरा' बुद्धिमन्तः स्थिरा वा, 'निर्ग्रन्थाः' साधवः, 'ऋजुदर्शिन' इति ऋजुर्मोक्षं प्रति ऋजुत्वात्स्यमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः संयमप्रतिबद्धाः इति सूत्रार्थः ॥ मू. ( २८ ) आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा संजया सुसमाहिया ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy