________________
१०
अध्ययन-३, उद्देशकः- [नि.२१६] मल्लः, इत्यादिलक्षणा विकथा, कथालक्षणविरहादिति गाथार्थः।
उक्ता विकथा, इदानीं प्रज्ञापकापेक्षयाऽऽसांप्राधान्यमाह-एता एवोक्तलक्षणाः कथाः प्रज्ञापयतीति प्रज्ञापकः प्रज्ञापकश्चासौ प्ररूपकश्चेति विग्रहस्तमवबोधकप्ररूपकं न तु घरट्टभ्रमणकल्पं यतो न किञ्चिदवगम्यत इत्यर्थः समाश्रित्य-प्राप्य किमित्याह-'अकथा' वक्ष्यमाणलक्षणा कथा चोक्तस्वरूपा विकथा चोक्तस्वरूपैव भवति, पुरुषान्तरं-श्रोतृलक्षणं प्राप्य-आसाद्य, साध्वसाध्वाशयवैचित्र्यात् सम्यक्श्रुतादिवत्, अन्ये तु प्रज्ञापकं-मूलकर्तारंप्ररूपकं-तत्कृतस्याख्यातारमिति व्याचक्षते, न चैतदतिशोभनं, 'पन्नवयपरूवगे समासज्ज'त्ति पाठप्रसङ्गादिति गाथार्थः । इदानीमकथालक्षणमाह-मिथ्यात्वमिति-मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां काञ्चिदज्ञानी कथां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव, यद्येवं नार्थोऽज्ञानिग्रहणेन मिथ्यात्ववेदकस्याज्ञानित्वाव्यभिचारादिति चेद्, त, प्रदेशानुभववेदकेन सम्यग्दृष्टिना व्यभिचारादिति, किंविशिष्टोऽसावित्याह-'लिङ्गस्थो वा' द्रव्यप्रव्रजितोऽङ्गारमर्दकादिः 'गृही वा' यः कश्चिदितरएव'सा' एवंप्ररूपकप्रयुक्तयुक्त्या श्रोतर्यपि प्रज्ञापकतुल्यपरिणामनिबन्धना अकथा देशिता समये, ततः प्रतिविशिष्टकथाफलाभावादिति गाथार्थः।। ___ अत्रैव प्रक्रमे कथामाह-तप:संयमगुणान् धारयन्ति तच्छीलाश्चेति तपःसंयमगुणधारिणः यांकाञ्चन चरणरता:-चरणप्रतिबद्धा न त्वन्यत्र निदानादिना कथयन्ति सद्भावं-परमार्थं, किंविशिष्टमित्याह-सर्वजगज्जीवहितं, नतु व्यवहारतः कतिपयसत्त्वहितमित्यर्थः, तुशब्दस्यावधारणार्थत्वात्, सैव कथा निश्चयतो देशिता समये, निर्जराख्यफलसाधनात्कर्तृणां श्रोतृणामपि चेत:कुशलपरिणामनिबन्धना कथैव, नोचेभाज्योति गाथार्थः॥ इहैवविकथामाह-य: संयतः प्रमत्तः-कषायादिना प्रमादेन रागद्वेषवशं गतः सन् नु तु मध्यस्थः परिकथयति किञ्चित् सा तु विकथाप्रवचने-सा पुनर्विकथा सिद्धान्तेप्रज्ञप्ता धीरपुरुषैः-तीर्थकरादिभिः, तथाविधपरिणामनिबन्धनत्वात् कर्तृश्रोत्रोरिति, श्रोतृपरिणामभेदे तुतं प्रति कथान्तरमेव, एवं सर्वत्र भावना कार्येति गाथार्थः । साम्प्रतं श्रमणेन यथाविधा न कार्या तथाविधामाह-श्रृङ्गाररसेन-मन्मथदीपकेन उत्तेजिता-अधिकं दीपिता, केत्याह-मोहएव-चारित्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपउ कुपितफुफुका-घटितकुकुला हसहसिंति'त्ति जाज्वल्यमानाजायतइतिवाक्यशेषः, यां श्रृणवतः कथांमोहोदयोजायत इत्यर्थः, श्रमणेन-साधुनानसा कथयितव्या, अकुशलभावनिबन्धनत्वादिति गाथार्थः। यत्प्रकारा कथनीया तत्प्रकारामाह-श्रमणेन कथयितव्या, किंविशिष्टेत्याह-'तपोनियमकथा' अनशनादिपञ्चाश्रवविरमणादिरूपा, साऽपि विरागसंयुक्तान निदानादिना रागादिसंगता, अत एवाह-यां कथां श्रुत्वा मनुष्यः- श्रोता व्रजति-गच्छति संवेयनिव्वेदंति संवेग निर्वेदं चेति गाथार्थः।
कथाकथनविधिमाह- महार्थापि कथा अपरिक्लेशबहुला कथयितव्या, नातिविस्तरकथनेन परिक्लेश: कार्य इत्यर्थः, किमित्येवमित्यत आह-'हंदी'त्युपदर्शने महता चडकरत्वेनअतिप्रपञ्चकथनेनेत्यर्थः किमित्याह-अर्थ कथा हन्ति-भावार्थं नाशयतीति गाथार्थः। विधिशेषमाह-क्षेत्रं-भौतादिभावितं कालं-क्षीयमाणादिलक्षणं पुरुषं-पारिणामिकादिरूपं सामर्थं चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योग: श्रमणेन त्वनवद्या-पापानुबन्धरहिता कथा कथयितव्या,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org