________________
१०२
दशवैकालिक - मूलसूत्रं - ३ /-/ १७ नान्येति गाथार्थः । उक्ता कथा, तदभिधानाद्गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि-चर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणयम्, तच्चेदम्
मू. ( १७ )
संजमे सुट्ठिअप्पाणं, विप्पमुक्काणं ताइणं । तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं ॥
वृ.इहसंहितादिक्रमः क्षुण्णः, भावार्थस्तवपम्- 'संयमे' द्रुमपुष्पिकाव्यावर्णितस्वरूपे शोभनेन प्रकारेण आगमनीत्या स्थित येषां ते सुस्थितात्मानस्तेषां त एव विशेष्यन्तेविविधम्- अनेकैः प्रकारैः, प्रकर्षेण - भावसारं मुक्ताः - परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्थेनेति विप्रमुक्तास्तेषां त एव विशेष्यन्ते - त्रायन्ते आत्मानां परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परं तीर्थकराः, स्वतस्तीर्णत्वाद्, उभयं स्थविरा इति, तेषामिदं वक्ष्यमाणलक्षणं अनाचरितम् - अकल्प्यं, केषामित्याह-‘निर्ग्रन्थानां' साधूनामित्यभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः, अथवा महान्तं एषितुं शीलं येषां ते महैषिणस्तेषां, इह च पूर्वपूर्वभाव एव उत्तरो-त्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मनिबन्धनत्वाद्विप्रमुक्तेः, एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः ।।
Jain Education International
मू. (१८)
.
वृ. साम्प्रतं यदनाचरितं तदाह- 'उद्देसियं' ति उद्देशनं सध्ध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमौद्देशिकं ?, क्रयणं क्रीतं भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति गम्यते, तेन कृतं - निर्वर्तितं क्रीतकृतं २, 'नियाग' मित्यामत्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामत्रि - तस्य ३, 'अभिहडाणि य'त्ति स्वग्रामादेः साधुनिमित्तमभिमुखमानीतमध्याहृतं, बहुवचनं स्वग्रामपरग्रामनिशीथादिभेदख्यापनार्थं ४, तथा 'रात्रिभक्तं ' रात्रिभोजनं दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणं५, 'स्नानं च' देशसर्वभेदभिन्नं, देशस्नानमधिष्ठानशौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि, सर्वस्नानं तु प्रतीतं ६, तथा 'गन्धमाल्यव्यजनं च' गन्धग्रहणात्कोष्ठपुटादिपरिग्रहः माल्यग्रहणाच्च ग्रथितवेष्टितादेर्माल्यस्य वीजनं तालवृन्तादिना धर्म एव, इंदमानचरितं, दोषाश्चौद्देशिकादिष्वारम्भप्रवर्तमानदयः स्वधियाऽवगन्तव्या इति सूत्रार्थः ॥
मू. (१९)
संनिही गिहिमत्ते य, रायपिंडे किमिच्छए ।
संवाहणा दंतपहोयणा य संपुच्छणा देहपलोयणा य ॥
वृ. इदं चानाचरितमित्याह - 'सांनिहि' त्ति सूत्रम्, अस्य व्याख्या - संनिधीयते ऽनयाऽऽत्मा दुर्गताविति संनिधिः- धृतगुडादीनां संचयक्रिया १०, 'गृहिमात्रं ' गृहस्थभाजनं च ११, तथा 'राजापिण्डो' नृपाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन १२, तथा‘संबाधनम्' अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं १३, 'दन्तप्रधावनं' चाङ्गुल्यादिना क्षालनं १४, तथा 'संप्रश्न: ' सावद्यो गृहस्थविषयः, राढार्थं कीदृशो वाऽहमित्यादिरूप: १५, 'देहप्रलोकनं च' आदर्शादावनाचरितम् १६, दोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः, स्वधियैव वाच्या इति सूत्रार्थः ॥
उद्देसियं कीयगडं, नियागमभिहडाणिय।
राइभत्ते सिणाणे य, गंधमल्ले य वीयणे ॥
For Private & Personal Use Only
www.jainelibrary.org