________________
४००
पिण्डनियुक्तिः मूलसूत्रं चोरियए गहणाई भयए सुण्हाइ वा दंते॥ - वृ. बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्रागनिसृष्टे दोषा द्रष्टव्याः। तथा चौर्येणभृतके कर्मकर स्नुषादौ वा ददति ‘ग्रहणादयः' ग्रहणबन्धनताऽनादयो दोषा द्रष्टव्याः, तस्मात्ततोऽपि न कल्पते। मू. (६३७) पाहुडि ठवियगदोसा तिरिउड्डमहे तिहा अवायाओ।
धम्मियमाई ठवियं परस्स परसंतियं वावि॥ वृ. प्राभृतिका बल्यादिनिमित्तं संस्थाप्य या ददाति भिक्षां तत्र दोषाः प्रवर्त्तनादयः सम्प्रति अपायेति द्वारेऽपायास्त्रिविधाः तद्यथा-तिर्यगूर्ध्वमधव, तत्र तिर्यग्गवादिभ्य ऊर्द्धमुत्तरङ्गकाष्ठादेरधः सर्पकण्टकादेः, इत्थं च त्रिविधानामप्यपायानामन्य तममपायं बुद्धया सम्भावयन्न ततो भिक्षां गृहीयात्, ‘परं चोद्दिश्ये'ति यदुक्तं, तत्राह-'धार्मिकाद्यर्थम' अपरसाधुकार्पटिकमप्रभृति निमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृह्यीयात. तदग्रहणेऽदत्तादानदोषसम्भवात. यद्वा 'परसंतियं वत्ति परस्यग्लानादेः सत्कं यद्ददाति तदपि खयमादातुंन कल्पते. अदत्तादानदोषात, किन्तु यस्मग्लानाय दापितं नम्मं नीत्वा दातव्यं. सचेन्नगृह्यातितर्हिभूयोऽपिदाव्याःसमानीयसमर्पणीयं,यदिपुनरेवंदात्रीवदति-यदिवलानादिकोनगृह्याति तर्हि स्वयं ग्राह्यमिति, तर्हि ग्लानाधग्रहणे तस्य कल्पत इति। सम्प्रत्याभोगानाभोगदायकस्वरूपमाहमू. (६३८) अनुकंपा पडिनीयट्ठया व ते कुणइ जाणमाणोऽवि।
एसणदोसे बिइओ कुणइ उ असढो अयाणतो॥ वृ. सदैवैते महानुभावा यतयोऽन्तप्रान्तमशनमश्चन्ति तस्मात्करोम्पतेषां शगंगष्टम्भाय धृतपूरादीनीत्येवमनुकम्पया यदिवा मयैतेषामनेषणीयाग्रहणनियमभङ्गो भव्य इति प्रत्यनीकार्थतया जानानोऽपि तानाधाकर्मादिरूपानेषणादोषान् करोति, द्वितीयस्तु करोति अजानानः अशठभावः। तदेवं व्याख्यातानि चत्वारिंशदपि बालादिद्वाराणि, सम्प्रति यदुक्तम्-‘एएसिदायगाणं गहणं केसिंचि होइभइयव्वं' इत्यादि, तद्व्याचिख्यासुः प्रथमतो बालमाश्रित्यभजनामाहमू. (६३९) भिक्खामित्ते अवियालणा उबालेण दिज्जमाणंमि।
संदिट्टे वा गहणं अबिय वियालणेऽणुन्ना।। वृ. मातुः परोक्ष भिक्षामात्रे बालेन दीयमाने यदिवा पार्श्ववर्तिना मात्रादिना सन्दिष्टे सति तेन बालेन दीयमानेऽविचारणा-कल्पते इदं न वेति विचारणाया अभावः, किन्तु ग्रहणं भिक्षाया भवति, अतिबहुके तु बालेनदीयमाने किमद्यत्वं प्रभूतं ददासीति विचारणे सति यद्यनुज्ञा-पार्श्ववर्त्तिमात्रादिसत्कमुत्कलनाभवति तदा ग्राह्यं तान्यथा। सम्प्रति स्थविरमत्तविषयां भजनामाहमू. (६४०) - थेर पहु'थरथरते दरिए अन्नेण दढसरीरे वा ।
. अव्वत्तमत्तसड्ढे अविमले वा असागरिए॥ वृ. स्थविरो यदि प्रभुर्भवति, थरथरंत त्ति कम्पमानो यद्यन्येन विधृता वर्त्तते स्वरूपेण वा दृढशरीरो भवतितर्हिततःकल्पते,तथाऽव्यक्तंमनाक्योमत्तःसोऽपियदिश्राद्धोऽविहलच-अपरवशश्चभवतिततस्तरमादवविधान्मत्तान् तत्र सागरिका न विद्यते तर्हि कल्पते नान्यथा। उन्मत्तादिचतुष्कविषयां भजनामाहमू. (६४१) सुइभद्दग दित्ताई दढग्गहे वेविए जरंमि सिवे।
अन्नधरियं तु सड्ढो देयंधोऽन्नण वा धरिए। - वृ. उन्मत्तो-दृप्तादिदृप्तग्रहगृहीतादिः स चेत शुचिर्भद्रकाश्च भवति तदा तद्वस्तात्कल्पते, नान्यथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org