________________
मृलं-६०४
अचित्तेणवि पिहिए चभंगी दोसु अग्गज्यं ॥
वृ. 'अचित्तेनापि अचित्तेदेयेवस्तुनिपिहिते' चतुभ्रङ्गी' चत्वारोभङ्गाः, तद्यथा-गुरुगुरुणापिहितमित्येको भङ्ग, गुरु लघुनेति द्वितीयः, लघु गुरुणेति तृतीयः, 'दोवि 'लहुयाई' ति लघुना पिहितमिति चतुर्थः । एतेषु च चतुर्षु भङ्गेषु मध्ये द्वयोः प्रथमतृतीययोर्भङ्गयोरग्राह्यं, गुरुद्रव्यस्योत्पाटने कथमपि तस्य पा पादादिभङ्गसम्भवात्, ततः पारिशेष्याद, द्वितीयचतुर्थयोग्राह्यमुक्त दोषाभावात्. देयवस्त्वाधारस्य पिठरादेर्गुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् । उक्तं पिहितद्वारम्, अथ संहृतद्वारमाहसचित्ते अचित्ते मीसग साहारणे य चउभंगो। आइतिए पडिसेहो चरिमे भंगंमि भयणा ॥
मू. (६०५)
३९३
वृ. इहयेनमात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तंमिश्रं वाऽस्ति ततस्तदन्यत्र भूम्यादौ क्षिप्त्वा तेनान्यद्ददाति, तच कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिपति कदाचिदचित्तेषुकदाचिन्मिश्रेषु, क्षेपणंचसंहरणमुच्यते, ततः सचित्ताद्यधिकृत्यचतुर्भङ्गी, अत्रजातावेकवचनं, तिस्त्रश्रुतुर्भङ्गयो भवन्तीत्यर्थः, तथाहि - एका- चतुर्भङ्गी सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, मिश्राचित्तपदाभ्यां तृतीयेति, तत्र सचित्ते सचित्तं संह्यतं मिश्रे सचितं सचित्ते मिश्रं मिश्रे मिश्रमिति प्रथमा चतुर्भङ्गी, तथा सचित्ते सचित्तं सहृतम्, अचित्ते सचित्तं, सचित्तेऽचित्तम्, अचित्तेऽचित्तमिति द्वितीया, तथा मिश्रेमिश्रंसंहृतमे, अचित्तेमिश्रं, मिश्रेऽचित्तम्, अचित्तेऽचित्तमितितृतीया । अत्रगाथापर्यन्त-तुशब्दसामर्थ्या-. त्प्रथमचतुर्भङ्गीकायाः सर्वेष्वपि भङ्गेषु प्रतिषेधः, द्वितीयतृतीयचतुर्भङ्गीकयोस्तु 'आदित्रिके' आदिमेषु त्रिषु त्रिषु भङ्गेषु प्रतिषेधः चरमे भजना । अधुना चतुर्भङ्गीत्रयसत्कावान्तरभङ्गकथनेऽतिदेशमाह - जह चेव उ निक्खित्तेसंजोगा चेव होतिभंगा य ।
मू. (६०६)
तह चेव उ साहरणे नाणत्तमिणं तइयभंगे ||
वृ. यथैव 'निक्षिप्ते' निक्षिप्तद्वारे सचित्ताचित्तमिश्रपदानां संयोगाः कृताः, यथैव च सचित्तपृथिवीकायः सचित्तपृथिवीकायस्योपरि निक्षिप्तं इत्येवं स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेकैकस्मिन् भङ्गे षट्त्रिंशत्, षट्त्रिंशद्भङ्गा उक्ताः, सर्वसङ्ख्ययाचत्वारिशतानिद्वात्रिंशदधिकानिभङ्गानां तथाऽवापिसंहृतद्वारे द्रष्टव्या, तथाहि-प्रागिवात्रापिचतुर्भङ्गीत्रयमेकैकस्मिंश्रभङ्गेसचित्तः पृथिवीकायःसचित्तपृथिवीकामध्ये संहृत इत्यादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षट्त्रिंशद्भाङ्गाः, सर्वसङ्ख्यया भङ्गानां चत्वारि शतानि द्वात्रिंशदधिकानि । नवरं द्वितीयतृतीयचतुर्भाङ्गकयोः प्रत्येकं तृतीय तृतीये भङ्गेऽनन्तरपरम्परमार्गमाविधौ निक्षिप्तद्वारादिदं वक्ष्यमाणं नानात्वमसेवयं, निक्षिप्तद्वारेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र तु संहतद्वारे ज्न्यथां करिष्यते इति भावः । तदेवान्यथात्वं दर्शयन संहरलक्षणमाह
मू. (६०७)
मत्तेण जेण दाहि तत्थ अदिज्जं तु होज्ज असणाई ।
छोटु तयन्नहिं तेणं देई अह होड़ साहरणं ॥
वृ. येन मात्रकेण दास्यति दात्री तत्रादेयं किमप्यस्ति 'अशनादिकं' भक्तादि सचित्तपृथिवीकायादिकं वा, ततस्त' अदेयम्' अन्यत्र स्थानान्तरे क्षिप्त्वा ददाति अह' त्तिएतत्संहरणं, तत एतल्लक्षणानुसारणानन्तरपरम्परमार्गणा अनुसरणीया, तद्यथा सचित्तपृथिवीकामद्ये यदा संहरतितदाऽनन्तरसचित्तपृथिवीकायसंहृतं, यदा तु सचित्तपृथिवीकास्योपरि स्थिते पिठरादौ संहरति तदा परम्परया सचित्तपृथिवीकार्य संहृतम् । एवमष्कायादिष्वपिभावनीयम्। अनन्तरसंहृतेनग्राह्यं, परम्परासंहृते सचित्तपृथिवीकायाद्यघट्टने ग्राह्यमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org