________________
मूलं- ४७८
३६७
स्वजातिप्रकटनायजल्पति अनेन तव पुत्रेण सम्यगसम्यग्वा होमादिका क्रिया कृता, तत्रासम्यक् त्रिधा, तद्यथा-ऊनाऽधिका विपरीता वा, सम्यक् समिघादीन् घोषादींश्र यथाऽवस्थितानाश्रित्य तत्र 'समिधः' अश्वत्थादिवृक्षाणां प्रतिशाखाखण्डानि मन्त्राः प्रणवप्रभृतिका अक्षरपद्वतयः ‘आहुतिः' अग्नौ धृतादैः प्रक्षेपः ‘स्थानम्’उत्कटादि‘यागः’अश्वमेघादिः 'कालः प्रभातादि 'घोषा' उदात्तादयः, आदिशब्दाद्व्रस्वदीर्घादिवर्णपरिग्रहः एवं चोक्ते स साधु ब्राह्मणं जानाति तथा च सति भद्रे प्रान्ते वा पूर्ववद्दोषा वक्तव्याः । मू. (४७९) उगाइकुलेसुवि एमेव गणे मंडलप्पवेसाई । देउलदरिसाभासाउवनयने दंडमाईया ||
वृ. 'एवमेव' जाताविव कुलादिष्वपि उग्रादिधूपजीवनं अवगन्तव्यं, यथा कोऽपि साधुरुपकुले भिक्षार्थं प्रविष्टः, तत्रचतत्पुत्रंपदातीन्यथावदारक्षककर्मसुनियुआनंदष्ट्वा तत्पितरमाह-ज्ञायतेतवपुत्रोऽप्रवेदितोऽपि यथायोगं पदातीनां नियोजनेनोग्रकुलसम्भृत इति ततः स जानाति एषोऽपि साधुरुग्रकुलसमुत्पन्न इति इदं तु सूचया स्वकुलप्रकाशनं, यदा तु स्फुटवाचैव स्वकुलमावेदयति यथाऽहं उग्रकुलः भोगकुल इत्यादि तदाऽसूचयाप्रकटन्,तेषांभद्रप्रान्तवेपूर्वोक्तानुसारेणदोषा वक्तव्याः । तथा गणे' गणविषयेमण्डलप्रवेशादि, इहारकवल(करवाट) के प्रविष्टस्यैकस्य मल्लस्य यल्लभ्यं भूखंड तन्मण्डलं, तत्र वर्त्तमानस्य प्रतिद्वन्द्विनो मल्लस्य विघाताय यः प्रवेशस्तदादि, आदिशब्दाद्वीवाग्रहादिपरिग्रहः, तथा 'देवकुलदर्शनं' युद्धप्रवेशे चामुण्डाप्रतिमाप्रणमनं, 'भाषोयपनयनं' प्रतिमल्लाह्यानाय तथा तथा वचनढौकनं 'दण्डादिका' घरणिपातच्छुप्ताङ्कयुद्धप्रभृतयः, एतान् गणगृहे प्रविष्टः सन्, तत्पुत्रस्य प्रशंसति, तथा च सति तेन ज्ञायतेयथैषोऽपि साधुमल्ल इत्यादि प्राग्वत् । कर्मशिल्पयोराजीवनमाहमू. (४८०)
कत्तरि पओअणावेक्खवत्थु बहुवित्थरेसु एमेव । कम्मे य सिप्पे सुय सम्ममसम्मेसु सूईयरा ॥
वृ. कर्मसु शिल्पेषु चैवमेव-कुलादाविवोपजीवनं वक्तव्यं, कथम् ? इत्याह- 'कर्त्तरि' कर्मणां शिल्पानां च विधायके, उपलक्षणमेतत्, विधापके च वणिजादौ, सप्तमी चात्र षष्ठ्यर्थे, ततोऽयमर्थः कर्तुः कारापकस्य च' प्रयोजनापेक्षेषु' भूमिविलिखनादिषु प्रयोजननिमित्तंम्रियमाणेषु हलादिषु वस्तुषु, सूत्रेचात्र विभिक्त लोप आर्षत्वात्, ‘बहुविस्तरेषु' प्रभूतेषु नानाविधेषु च सम्यगसम्यगिति वा प्रोच्यमानेषु - शोभनान्यशोभना व कथ्यमानेषु यदात्मनि कर्माणि शिल्पे वा कौशलज्ञापनं तत्तयोरुपजीवनम् इयमत्र दृष्ट्वाऽऽत्मनः कर्मणि शिल्पे वा कौशलज्ञापनाय शोभनान्यशोभनानीति वा यद्वक्ति तत्कर्मशिल्पयोराजीवनम् । अनेन प्रकारेण कौशलज्ञापन सूचास्फुटवचनेन च कौशलकखनमसूचा । उक्तमाजीवद्वारम्, अथ वनीपकद्वारं वक्तव्यं, मू. (४८१ ) समण माहणि किवण अतिही साणे य होइ पंचमए ।
वणि जायणत्ति वणिओ पायप्पाणं वर्णइति ॥
-
वृ. वनीपकः, पञ्चधा, तद्यथा- 'श्रमण' श्रमणविषयः, ब्राह्मणे कृणणेऽतिथी शुनि च पञ्चमां भवति, तत्र वनीपाक इति वनिरित्ययं धातुर्चायने, 'वनु याचने' इति वचनात, ततो वनुते प्रायो दायकसम्मतेषु श्रमणादिष्वात्मानं भक्ते दर्शयित्वा पिण्डं याचते इति वणिउत्ति' वनीपकः, आणादिक ईपकप्रत्ययः । मयमाइवच्छगंपिव वणेइ आहारमाइलोभेणं । समस माहणेय किविणाऽतिहिसामणभत्तेसु ॥
मू. (४८२)
वृ. 'भृता' पञ्चत्वमुपगता माता यस्य वत्सकस्य तर्णकस्य तमिव गोपालकोऽन्यस्यां गवीतिशेषः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International