SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ मूलं-४१० इयरोऽवि आह नाहं देमित्ति सहोढ चोरत्ति॥ मू. (४११) गिण्हण कड्डण ववहार पच्छकडुड्डाह पुच्छ निव्विसए। अपहुंमि भवे दोसा पहुंमि दिन्ने तओ गहणं॥ वृ. रत्नपुरे पुरे माणिभद्रप्रमुखा द्वात्रिंशद्वयस्याः, ते कदाचिदुद्यापनानिमित्तं साधारणान् मोदकान् कारितवन्तः, कारयित्वाचसमुदायेनोद्यापनिकायांगताः, तत्रचैकोमोदकरक्षकोभुक्तः,शेषास्त्वेकत्रिशन्नद्यां स्नातुंगताः, अत्रान्तरे चकोऽपि लोलुपः साधुर्भिक्षार्थमुपातिष्ठत, दृष्टाश्च तेन मोदकाः, ततो जातलाम्पट्यो धर्मलाभयित्वा तं पुरुषं मोदकान् याचितवान्, स प्राह-भगवन् ! न ममैकाकिनोऽधीना एते मोदकाः, किन्त्वन्येषामप्येकत्रिशज्जनानां, ततःकथमहंप्रयच्छामि?, एवमुक्ते साधुराह-ते कहिं'तिकुत्रगताः?स प्राह-नद्यां स्नातुमिति, तत एवमुक्ते भूयोऽपि साधुस्तं प्रत्याह-परसत्केन मोदकसमूहेन त्वं पुण्यं कर्तुं न शक्नोषि ? यदेवं याचितोऽपि न ददासि. महानुभाव! मृढस्त्वं. यः परसत्कानपि मोदकान मह्यं दत्त्वा पुण्यं नापार्जयसि.अपि च द्वात्रिशतमपि मोदकान यदि मे प्रयच्छसि तथापि तव भागे एक एव मोदको याति, तत एवमल्पव्ययं बह्वायं दानं यदिजानासि सम्यगहृदयेन तर्हि ततो देहिमे सर्वानपि मोदकानिति, तत एवमुक्ते दत्तास्तेनसर्वेऽपिमोदकाः,भृतंसाधुभाजनं,ततःसञ्जातहर्षःसाधुस्तस्मात्स्थानाद्विनिर्गन्तुप्रवृत्तः, अत्रान्तरे चसम्मुखमागच्छन्तिगमाणिभद्रादयःपृष्टश्चतैःसाधुः-भगवन् ! किमत्रत्वयालब्धं?,ततःसाधुनाचिन्तितं, यथैते ते मोदकस्वामिनस्ततो यदि मोदका लब्धा इति वक्ष्ये तर्हि भूयोऽपि ग्रहीष्यन्ति, तस्मान्न किमपि लब्धमिति वच्मीति, तथैवोक्तवान्। ततस्तैर्माणिभद्रप्रमुखै राक्रान्तं साधुमवलोक्य सञ्जातशङ्करभाणि-दर्शय निजभाजनं साधो ! येन प्रेक्षामहे,साधुश्चनदर्शयति,ततोबलात्प्रलोकितं,दृष्टामोदकाः, ततःकोपारुणलोचनैःसाधिक्षेपंरक्षकपुरुषः पृष्टः-यथा किंभोः! त्वयाऽस्मैसर्वेऽपिमोदकादत्ताः?,सभयेनकम्पमानोऽवोचत्-नमयादत्ताः, एवं चोक्ते माणिभद्रादिभिःसाधुरूचे-चौरस्त्वंपापसाधुवेषबिडम्बकः 'सहोढ' इतिसलोपूत्रइदानींप्राप्तोऽसि? कुतस्ते मोक्ष इतिगृहीतो वस्त्राञ्जले?, कर्षितो बहुना, ततः पश्चात्कृत इति गृहीत्वा सकलमपि पात्ररजोहरणादिकमुपकरणं गृहस्थीकृतः, ततः उड्डाह' इति नीतो राजकुलं, कथितो धर्माधिकरणिकानां, पृष्टश्चतैः साधुश्चन किमपिलज्जयावक्तुं शक्तवान,ततस्तैःपरिभावितं-नूनमेषचोरइति, परंसाधुवेषधारीतिकृत्वाप्राणैर्मक्तो निर्विषयश्चाऽऽज्ञापितः एवमत्र भावना-अनायके दातरि एतेऽनन्तरोक्ता ग्रहणकर्षणादयो दोषा भवन्ति, 'पहुंमित्तितृतीयार्थ सप्तमा: यथा तिसुतेसुअलंकियापुहवी' इत्यत्र,ततोऽयमर्थः-तस्मात् प्रभुणा' नायकेन दत्ते सति साधुना ग्रहण भक्तादः कर्त्तव्यं, तत्राप्याच्छेद्यादिकं सम्यक् परिहर्त्तव्यमिति। ___ मू. (४१२) एमव य जंतंमिवि संखडि खीरे य आवणाईसुं। सामन्नं पडिकुटुं कप्पइ घेत्तुं अणुन्नायं॥ • व.एवमेव मोदकांदाहरणप्रकारणयन्त्रेऽपिसङ्खड्यामपिक्षीरेचाऽऽपणादिषुचयत् सामान्य साधारणं तत्स्वामिभिःसर्वैरप्यनिसृष्टंसत्प्रतिक्रुष्टतीर्थकरगणधरैः, अनुज्ञातंपुनःसर्वैरपिस्वामिभिःकल्पतेग्रहीतुं, तत्र दोषाभावात्। सम्प्रति चुल्लकन्द्रारस्य प्रस्तावना चुल्लकस्य भेदं च प्रतिपादयतिमू. (४१३) चुल्लत्ति दारमहुणा बहुवत्तव्वंतितं कयं पच्छा। तन्नेइ गुरु सो पुण सामिय हत्थीण विन्नेओ॥ वृ.अधुना चुल्लकद्वारंव्याख्येयम्, अथोच्यते-मूलगाथाया द्वितीयेस्थानेनिर्दिष्टमपिकस्माद्वाख्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy