________________
पिण्डनियुक्तिः-मूलसूत्रं तस्मिन्नेव ग्रामे शिवदेवोनामश्रेष्ठी, तस्यभार्या शिवा, अन्यदा चसमुद्रघोषाभिधाःसूरयःसमागच्छन्, तेषां समीपे जिनप्रणीतं धर्ममाकर्ण्य जातसंवेगःसम्मतो दीक्षां गृहीतवान् कालक्रमेण च गुरुचरणप्रसादतोऽतीवे गीतार्थःसमजनि।सचान्यदाचिन्तयामास-यदिमदीयः कोऽपिप्रव्रज्यांगृह्णाति ततःशोभनं भवति, इदमेव हि तात्त्विकमुपकारकरणं यत्संसाराणवादत्तारणमिति, तत एवं चिन्तयित्वा गुरूनापृच्छ्य निजबन्धुग्रामे समागमत, तत्र चबहिः प्रदेशे कमपिपरिणतवयसंपृष्टवान् पुरुषं-यथाऽत्रदेवराजाभिधस्य कुटुम्बिनः सत्कः कोऽपि विद्यते? इति,सप्राह-मृतं सर्वमपितस्यकुटुम्बकेवलमेका सम्मत्यभिधा विधवापुत्रिकाजीवतीति, ततःसतस्यागृहे जगाम, साचभ्रातरमायान्तं दृष्ट्वामनसिबहुमानमुद्वहन्तीवन्दित्वाकश्चित्कालंपर्युपास्य च तन्निमित्तमाहारं पक्तु मुपतस्थे, साधुश्च तां निवारितवान्-यथा न कल्पतेऽस्माकमस्मन्निमित्तं किमपि कृतमिति,ततोभिक्षावेलायांसादुर्गतत्वेनान्यत्रक्वचिदपितैलमात्रमप्यलभमानाकथमपिशिवदेवाभिधस्य वणिजो विपणेस्तैलपलिकाद्वयं दिने दिने द्विगुणवृद्धिरूपेण कलान्तरेण समानीय भ्रात्रे दत्तवती, भात्रा चतं वृत्तान्तमजानताशुद्धमितिज्ञात्वाप्रतिजगृहे, साचतद्दिनंभ्रातुःसकाशेधर्मश्रुतवती,तेननपानीयानयनादिना न तत्तैलपलिकाद्वयं द्विगुणीभूतं प्रवेशयितुं शक्त वती, तृतीये च दिने कर्षद्वयमृणे जातं तच्चातिप्रभूतत्वान्न प्रवेशयितुं शक्तम्, अपिच भोजनमपि पानीयानयनादिना कर्त्तव्यं, ततो भोजनायैव यत्नविधौ सकलमपि दिनं जगामेति न ऋणं प्रवेशयितुं शक्रोति, ततो दिने दिने द्विगुणवृद्ध्या प्रवर्द्धमानमृणमपरिमितघटप्रमाणं जातं, ततः श्रेष्ठिना सा बभणे___ यथा मम तैलं देहि यद्वां मे दासी भव, ततः सा तैलं दातुमशक्नुवती दासत्वं प्रतिपेदे, कियत्सु च वर्षेष्वतिक्रान्तेषुभूयोऽपि सम्मताभिधःसाधुस्तस्मिन्नेवग्रामे यथाविहारक्रममागमत्, साचभगिनीस्वगृहे न दृष्टा, तत आगता सती पप्रच्छे, तयाचप्राचीनः सर्वोऽपिंव्यतिकरस्तस्मैन्यवेदि यावद्दासत्वं शिवदेवगृहे जातमिति, निवेद्यचस्वदुःखंरोदितुंप्रवृत्ता,ततःसाधुरवोचत्-मारोदीरचिरादहत्वांमोचयिष्यामि,ततस्तस्या मोचनोपायचिन्तयन्प्रथमतःशिवदेवस्यैवगृहेप्रविवेश,शिवाचतस्यभिक्षादानार्थेजलेनहस्तौप्रक्षालयितु लग्ना, तां च साधुर्निवारयामास, यथैवमस्माकंन कल्पते भिक्षेति, ततः समीपदेशवर्ती श्रेष्ठी प्रोवाच-कोऽत्र दोषः?,ततःसाधुःकायविराधनादीन्दोषान्यथागमंसविस्तरमचीकथत्ततःसआदतोभणतियथाभगवन् ! कुत्र युष्मांक वसतिर्येन तत्रागता वयं धर्मं श्रृणुमः ततः साधुरवादीत्-नास्ति मेऽद्यापि प्रतिश्रयः, ततस्तेन निजगृहेकदेशेवसतिरदायि प्रतिदिनंचधर्मश्रृणोति,सम्यक्त्वमणुव्रतानिचप्रतिपन्नानि.साधुश्चकदाचनापि वासुदेवादिपूर्वपुरुषाचीर्णाननेकानभिग्रहान व्यावर्णयामास, यथावासुदेवेनायमभिग्रहोजगृहे-यदिमदीयः पुत्रोऽपिप्रव्रज्यांप्रतिपद्यतेततोऽहंननिवारयामीति, अत्रान्तरे चशिवदेवस्यतनयोज्येष्ठःसाचसाधुभगिनी सम्मतिः प्रवज्यां ग्रहीतुमुपतस्थे, श्रेष्ठिना च तौ द्वावपि विसर्जिती, ततः प्रव्रज्यां प्रतिपन्नाविति। सूत्रं सुगम, केवलं श्रुताधिगमज्ञातविधिः' श्रुताधिगमात् ज्ञातो विधिः क्रियाविधिर्यन च तथा, अत्राह-नन्वंतत्प्रामित्यं साधुना विशेषतो ग्रहीतव्यं, परम्परया प्रव्रज्याकारणत्वात्, अत आह- 'कइक्या उ' एवंविधा गीतार्था विशिष्टश्रुतविदो देशनाविधिनिपुणाः कतिपया एव भवन्ति, न भूयांसः कतिपयानामेव च प्रव्रज्यापरिणामः, ततःप्रामित्यंदोषायैवातदेवतैलविषयेप्रामित्येदोषउक्तः,सम्प्रत्यतिदेशेनवस्त्रादिविषयेदोषानभिधित्सुराहमू. (३४८) एए चेव य दोसा सविसेसयरा उवत्थपाएसुं।
लोइयपामिच्चेसुंलोगुत्तरिया इमे अन्ने ॥ वृ. 'एते एव' दासत्वादयो दोषा वस्त्रपात्रविषयेसु लौकिकेषु प्रामित्येषु सविशेषतरा निगडा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org