SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ मूलं - २३७ ३१३ दर्शिताः, कथितश्च सर्वोऽपि यथावस्थितो वृत्तान्तः, तत्र ये आज्ञाभङ्गकारिणस्ते विनाशिताः, इतरे मुक्ताः, सूत्र सुगमं, नवरं 'तओ दंडो' त्ति दण्डो- मारणम्, एतद्भावनार्थं रूपकत्रयं सूरोदयमित्यादि, तत्र 'पच्चुरसं' प्रत्युरसम्- उरसः सम्मुखं, 'निंतस्सय'त्तिउद्यानादपराह्णे निर्यतः राज्ञउभयेषां दर्शनं, ततोयथाक्रमंवधविसर्गौ, एतेन यदुक्तम्- 'अब्भोज्ने गमनाइ य' इत्यादिगाथायां 'दिट्टंता तत्थिमा दोन्नि' तद्व्याख्यातं । मू. (२३८) जह ते दंसणकखी अपूरिइच्छा विनासिया रन्ना । दिवेवियरे मुक्का एमेव इहं समोयारो ॥ वृ. यथा ते दुर्वृत्ता दर्शनकाङ्क्षिणः अपूरितेच्छा अपि आज्ञाभङ्गकारिण इति राज्ञा विनाशिताः, 'इतरे' च तृणकाष्ठाहारादयश्चन्द्रोदयोद्यानगता दृष्टेऽपि तैरन्तःपुरे आज्ञाकारित्वान्मुक्ताः, एवमेव इहापि आधाकर्म्मविषये ' समवतारो' योजना कार्या, साचैवम्-आधाकर्म्मभोजनपरिणामपरिणताः शुद्धमपिभुआना आज्ञाभङ्गकारित्वात्कर्म्मणाबध्यन्ते,साधुवेषविडम्बकसाधुवत, शुद्धंगवेषयन्त आधाकर्म्मापिभुञ्जानाभगवदाज्ञाऽऽराधनात् न बध्यन्ते, प्रियङ्कराभिधक्षपकसाधुवदिति ।। आधाकर्म्मभोजिनमेव भूयोऽपि निन्दतिमू. (२३९) आहाकम्मं भुंजइ न पडिक्कमए य तस्स ठाणस्स । एमेव अडड़ बोडो लुक्कविलुक्को जह कवोडो ॥ वृ. यआधाकर्म्म भुङ्क्ते, नचतस्मात् 'स्थानात्' आधाकर्म्मपरिभोगरूपात् 'प्रतिक्रामति' प्रायश्चित्तग्रहणेननिवर्त्तते, स‘बोडः’मुण्डो जिनाज्ञाभङ्गे निष्फलं तस्यशिरोलुञ्चनादीति बोडइत्येवमधिक्षिपति, एवमेव निष्फलम् ‘अटति’ जगति परिभ्रमति, अधिक्षेपसूचकमेव दृष्टान्तमाह- 'लुक्कंविलुक्को जह कवोडो' लुञ्चितविलुञ्चितोयथा' कपोतः' पक्षिविशेषः, यथा तस्यलुञ्चनमटनंचनधर्माय तथा साधोरप्याधाकर्म्मभोजिन इत्यर्थः, तत्र सामान्यतो लुञ्चनं विच्छित्त्या विशबरं वा लुञ्चनं विलुश्चनम् ॥ आहाकम्मद्दारं भणियमिदानिं पुरा समुद्दिट्टं । मू. (२४०) उद्देसियंति वोच्छं समासओ तं दुहा होइ ॥ वृ.भणितामाधाकर्म्मद्वारम्, इदानीं 'पुरा' पूर्वम् औद्देशिकमिति यद्वारं समुद्दिष्टं तद्वक्ष्ये । तच्च समासतो द्विधा भवति, द्वैविध्यमाहमू. (२४१) ओहेन विभागेन य ओहे ठप्पं तु बारस विभागे । उहि कडे कम्मे एक्केक्कि चउक्कओ भेओ ॥ वृ. द्विविधमौद्देशिकं, तद्यथा - ओघेन विभागेन च, तत्र ओघः' सामान्यं विभागः ' पृथक्करणम. इयं चात्र भावनानादत्तमिह किमपि लभ्यते ततः कतिपया भिक्षा दद्म इति बुद्ध्या कतिपयाधितण्डुलादिप्रक्षेपेण यन्निवृत्तमशनादित दोघादेशिकम, ओघन' सामान्येनस्वपरपृथग्विभागकरणाभावरूपेणादेशिकमोघौद्दशिकमिति व्युत्पत्तः. तथा वीवाहप्रकरणादिषु यदुद्धरितं तत् पृथक्कृत्वा दानाय कल्पितं सत विभागादेशिकं, विभागेनस्वसत्ताया उत्तार्य पृथक्करणेनादेशिक विभागाद्देशिकमिति व्युत्पत्तः, तत्र यत् 'ओघे' ओघविषयमाद्दशिकं तत्स्थाप्यं, नात्र व्याख्येयं किन्त्वग्रे व्याख्यास्यते इति भावः, यत्तु 'विभागे' विभागविषयं तत् 'बारस' त्ति 'सूचनात्सूत्रमिति न्यायात्द्वादशधा द्वादशप्रकारं । द्वादशप्रकारतामेवसामान्यतः कथयति उद्दिट्ट' इत्यादि. प्रथमतस्त्रिधाविभागौद्देशिकं, तद्यथा उद्दिष्टंकृतं कर्मच, तत्रस्वार्थमेवनिष्पन्नमशनादिकंभिक्षाचराणां दानाय यत् पृथक्कल्पितं तदुद्दिष्टं, यन्पुनरुद्धरितं सत् शाल्योदनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत्कृतमित्युच्यते, यत्पुनर्विवाहप्रकरणादावलद्धरितं मोदकचूर्ण्यादि तद्भ्योऽपि भिक्षाचराणां दानाय गुडपाक For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy