SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९८ पिण्डनियुक्तिः मूलसूत्रं यार्थः, सच श्रावकस्यैकादशींप्रतिमांप्रतिपन्नस्यतृतीयभङ्गभाविनोऽप्यायकृतंकल्पते इतिसमुच्चिनोति, केचिदाहुः एकादशी प्रतिमा प्रतिपन्नः साधुकल्प इति तस्याप्यय कृतं न कल्पते, तदयुक्तं, मूलटीकायामस्यार्थस्यासम्मतत्वात्, मूलटीकायां हि लिङ्गाभिग्रहचतुर्भङ्गिकाविषये कल्प्याकल्प्यविधिरेवमुक्तः"लिङ्गे नो अभिग्गहे जइ साहू न कप्पइ गिहत्थनिण्हवे कप्पइ''त्ति इह लिङ्गयुता गृहस्था एकादशी प्रतिमां प्रतिपन्नाःश्रावकाएवलभ्यन्ते, ततस्तेषामायकृतंकल्प्यमुक्तं . सेसएभयण'त्तिशेषकेभङ्गकत्रये भजना' विकल्पना क्वचित् कथञ्चित्कल्पते क्वचिद्द, भङ्गचतुष्टयमप्यधिकृत्य सामान्यत उदाहरति 'तित्थंकरे'त्यादि, यथेत्युदाहरणोपन्यासार्थः तीर्थकरकेवलिनोऽर्थाय कृतं कल्पते, इह तीर्थकर उत्पन्नकेवलज्ञान एव प्रायः सर्वत्रापि भूमण्डले पयतीतो भवति, प्रतीतस्य च तीर्थकरस्यार्थाय कृतं कल्पते नाप्रतीतस्य ततः केवलिग्रहणं यदा पुनश्छद्मस्थावस्थायामपि तीर्थकरत्वेन प्रतीतो भवति तदा तस्यामप्यवस्थायांतन्निमित्तंकृतंकल्पते,तीर्थकरगयहणंचप्रत्येकबुद्धनामुपलक्षणं तेनतेषामप्यायकृतं कल्पते, नोयसेसाणं'तिशेषसाधूनामर्थाय कृतंनकल्पते, इदंचसामान्यत उक्तं ततोऽमुमेवार्थमुपजीव्य तृतीयवर्जे शेषेभङ्गत्रयेभजनास्पष्टमुपदर्शाते-प्रवचनतःसाधर्मिकान लिङ्गतः, एकादशप्रतिमाप्रतिपन्नवर्जाः शेषश्रावकास्तेषामयिकृतंकल्पते,येतुचौरादिमुषितरजोहरणादिलिङ्गाःसाधवस्तेषामयिकृतंनकल्पते, द्रव्यलिङ्गापेक्षयासाधर्मिकत्वाभावेऽपिभावतश्चरणसाधर्मिकत्वात्,लिङ्गतःसाधर्मिकानप्रवचनतोनिह्नवाः ते यदि लोके निह्नवत्वेन ख्यातास्ततस्तेषामर्थाय कृतं कल्पते, अन्यथा न, न प्रवचतो न लिङ्गतः तीर्थकरप्रत्येकबुद्धास्तेषामर्थाय कृतं कल्पते, तदेवं प्रथमचतुर्भङ्गिकामधिकृत्य कल्प्याकल्प्यविधिरुक्तः, एतदनुसारेण च शेषास्वपि चतुर्भङ्गिकासु विज्ञेयः, स च प्रागेव प्रत्येकं दर्शितः। सर्वत्राप्ययं तात्पर्याोंऽवधारणीयः-यदितीर्थकराःप्रत्येकबुद्धा निवाःश्रावका वातर्हि तेषामर्थाय कृतंकल्पतेसाधूनामयिकृतं नकल्पते।तदेवमुक्तःकल्प्याकल्प्यविधिः, तदुक्तौच आहाकम्मियनामे'त्यादिमूलद्वारगाथायां' कस्स वावी' ति व्याख्यातं, सम्मति किं वावी'ति व्याचिख्यासुराह.मू. (९८२) किंतं आहाकम्मंति पुच्छिए तस्सरूवकहणत्थं। संभवपदरिसणत्थं च तस्स असनाइयं भणइ॥ वृ.किंतदाधाकर्मइतिशिष्येणपृष्टे तत्स्वरूपकथनार्थम् आधाकर्मस्वरूपकथनार्थ तस्य' आधाकर्मणः सम्भवप्रदर्शनार्थं च ‘अशनादिकम्' अशनपानखादिमस्वादिमं गुरुर्भणति, इयमत्र भावनाअशनादिस्वरूपमाधाकर्म-अशनादावेवचाधाकर्मणःसम्भवः,ततोगुरुःकिमाधाकर्मइतिपृष्टःसन्नशनादिकमेव वक्ति, तथा चशय्यम्भवसरिराधाकर्म दर्शयन पिण्डेषणाध्ययनेऽशनादिकमभिधत्ते, तद्यथा असणं पानगं चेव खाइम साइमं हता। जंजाणिज्ज सुणिज्जा वा. समणट्टा पगडं इमं॥ तं भव भत्तपाणं तु. संजयाण अकप्पियं। दंतियं पडियाइक्ख.न मे कप्पइ तारिसं॥ मू. (१८३/१) सालीमाइ अवडे फलाइ सुंठाइ साइमं होइ। वृ.शाल्यादिकमशनम्, अवट इति वापिकूपतडोधुपलक्षणं, ततः कूपवापीतडागादौ यज्जलं तत्पानं, तथा 'फलादि' फलं-नालिकरादि, आदिशब्दाच्चिश्चिणिकापुष्पादिपरिग्रहस्तत् खादिम, शुण्ठ्यादिकं स्वादिम, तत्र शुण्ठी प्रतीता, आदिशब्दात् हरीतक्यादिपरिग्रहः। तदेवं व्याख्यातान्यशनादीनि, सम्प्रत्येतेष्वेवाधाकर्मरूपेषु प्रत्येकं भङ्गचतुष्टयमाह मू. (१८३/२) तस्स कडनिट्टियमी सुद्धमसुद्धे य चत्तारि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy