________________
मूलं- १३२
२८१
पाचकादेर्यत्कर्म तदात्मकर्मीकरोति, किमुक्तं भवति ? तदात्मन्यपि कर्म्म करोतीति, ततो न कश्चिद्दोषः, परकर्म्मणश्रात्मकर्म्मकरणमाधाकर्म्मणा ग्रहणे भोजने वा सति भवति, नान्यथा, तत उपचारादाधाक आत्मकर्मेत्युच्यते । ननु तदाधाकर्म्म यदा स्वयं करोत्यन्यैर्वा कारयति कृतं वाऽनुमोदते तदा भवतु दोषो, यदा तु स्वयं न करोति नापि कारयति नाप्यनुमोदते तदा कस्तस्य ग्रहणे दोष इति ?, अत्राहकामं सयन न कुव्व जाणतो पुन तहावि तग्गाही । ass तम्पसंग अगिण्हमाणो उवारेइ ||
मू. (१३३)
वृ. 'काम' सम्मतमेतद्, यद्यपि स्वयं न करोत्याधाकर्म्म उपलक्षणमेतन्न कारयति, तथाऽपि मदर्थमेतनिष्पादितमिति जानानां यद्याधाकर्म्म गृह्णाति तर्हि तद्ग्राही 'तत्प्रसङ्गम्' आधाकर्मग्रणप्रसङ्गं वर्द्धयति, तथाहि-यदा स साधुराधाकर्म्म जानानो गृह्णाति तदाऽन्येषां साधूनां दायकानां चैवं बुद्धिरुपजायतेनाऽऽधाकर्म्मभोजने कथनापि दोषः, कथमन्यथा ससाधुर्जानानोऽपि गृहीतवानिति, ततएवं तेषां बुद्ध्युत्पादे सन्तत्या साधूनामाधाकर्म्मभोजने दीर्घकालं षड़जीवनिकायविघातः, स परमार्थतस्तेन प्रवर्त्यत, यस्तु न गृह्णाति स इत्थंभूतप्रसङ्गवृद्धिं निवारयति, प्रवृत्तेरवाभावात्, तथा चाह- 'अगिण्हमाणो उ वारेइ' ततोऽतिप्रसङ्गदोषभयात्कृतकाग्तिदोषरहितमपि नाघाकर्म्म भुञ्जीत, अन्यच्च तदाधाकर्म्म जानानोऽपि भुञ्जानो नियमतोऽनुमोदते, अनुमोदना हि नाम अप्रतिषेधनम्, 'अशप्रतिषिद्धमनुमत' मिति विद्वत्प्रवादात्, तत आधाकर्म्मभोजनेनियमतोऽनुमोदनादोषोऽनिवारितप्रसरः, अपिच एवमकधाकर्म्मभोजने कदाचिन्मनोज्ञाहरभोजनभिन्नदंष्ट्रतया स्वयमपि पचेत्पाचयेद्वा, तस्मान्न सर्वथाऽऽधाकर्म्म भोक्तव्यमिति स्थितम् ॥ तदेवमुक्त मात्कमकर्मेतिनाम, सम्प्रतिप्रतिषेवणादीनिनामानिवक्तव्यानि तानि चात्मकम्र्मेति नामाङ्गत्वेन प्रवृत्तानि, ततस्तेषामात्मकर्मेतिनामाङ्गत्वं प्रवृत्तानि, ततस्तेषामात्कर्मेतिनामाङ्गत्वं परस्परंगुरुलघुचिन्तां च चिकीर्षुरिदमाह
मू. (१३४)
अत्तीकरेइ कम्मं पडिसेवाईहिं तं पुन इमेहिं ।
तत्थ गुरु आइपयं लहु लहु लहुगा कमेणियरे ॥
वृ. तत्पुनर्ज्ञानावरणीयादिकं परकर्म्म 'आत्मीकरोति' आत्मसात्करोति 'एभिः ' वक्ष्यमाणस्वरूपैः प्रतिषेवणादिभिः, ततः प्रतिषेवणादिविषयमाधाकर्म्मापि प्रतिषेवणादिनाम, तत्र तेषां प्रतिषेवणादीनां चतुर्णां मध्ये 'आदिपदं' प्रतिषेवणालक्षणं 'गुरु' महादोष, शेषाणि तु पदानि प्रतिषेवणादीनि लघुलघुलघुकानि द्रष्टव्यानि प्रतिषेवणापेक्षया प्रतिश्रवणं लघु प्रतिश्रवणादपि संवासनं लघु संवासनादप्यनुमोदनमिति ॥ सम्प्रत्येतेषामेव प्रतिषेवणादीनां स्वरूपं दृष्टान्तांच प्रतिपिपादयिषुस्तद्विषयां प्रतिज्ञामाहपडिसवमाईणं दाराणऽनुमांयणावसाणानं ।
मू. (१३५)
जहसंभवं सख्वं सोदाहरणं पवक्खामि ॥
वृ. प्रतिषेवणादीनां द्वाराणामनुमादनापर्यवसानानां यथासम्भवं यद्यस्य सम्भवति तस्य तत्स्वरूपं 'सोदाहरणं' सदृष्टान्तं प्रवक्ष्यामि, तत्र प्रथमतः प्रतिषेवणास्वरूपं वक्त व्यं, तत्रापिय आधाकर्म्म स्वयमानीय भुक्ते स आधाकर्म्मप्रतिसेवी प्रतीत एव ।। केवलमिह ये परणीपनीतमाधाकर्म्म भुआनस्य न कचिद्दोष इति मन्यन्ते तन्मतविकुट्टनार्थं परेणोपनीतस्याऽऽधाकर्म्मणां भोजने प्रतिषेवणादोषमाह
मू. (१३६)
अनेणाहाकम्मं उवनीयं असइ चोइओ भगड़ । परहत्थेणंगारे कडतो जह न उज्झइ हु ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org