________________
मूलं-७७
_____२६१ मू. (७७) पवयणमाया नव बंभगुत्तिओ तह य समणधम्मो य।
एस पसत्थो पिंडो भणिओ कम्मठ्ठमहणेहिं॥ मू. (७८)
पसत्यो य असंजम अन्नाणं अविरई य मिच्छतं।
कोहायासवकाया कम्मेगुत्ती अहम्मो य॥ वृ. प्रशस्तोऽप्रशस्तश्च भावपिण्डः प्रत्येक दशविधः' दशप्रकारः, किंरुपः? इत्याह- ‘एकविधादिकः' एकविधोद्विविधस्त्रिविधश्चतुर्विधोयावद्दशविधइति,तत्रप्रथमतउद्देशक्रमप्रामाण्यानुसरणात्प्रशस्तंभावपिण्डं दशविधमप्यभिदधाति-'सञ्जमे'त्यादि, तत्रै कवधिः प्रशस्तो भावपिण्डः संयमः, इह संयमो ज्ञानदर्शने विना नभवति, पूर्वद्वयलाभः पुनरुत्तरलाभेभवंति सिद्धः' इतिवचनप्रामाण्यात,ततोज्ञानदर्शनसंयमएवान्तर्भूत विवक्षिते इति संयम एवैकः प्रशस्तभावपिण्डत्वेन प्रतिपाद्यमानो न विरुध्यते, द्विविधः पिण्डो विद्याचरणे' विद्या-ज्ञानं-चरणं-क्रिया, अत्र सम्यग्दर्शनं ज्ञान एवान्तर्भूतं विवक्षितमिति न पृथग्गणितं, विवक्षा हि वक्त्रधीना, वक्ता च कदाचित्संक्षेपणाभिधित्सुस्तां तां प्रत्यासत्तिमधिकृत्य तत्तदन्तर्भावेनाभिधत्ते कदाचित्पुनिर्विशेषपरिज्ञानोत्पादनायविस्तेरणाभिधित्सुः सर्ववैविक्त्येनपथकप्रतिपादयति.ततःकदाचित ज्ञानादित्रिकं संयम इति प्रतिपाद्यते कदाचित् ज्ञानक्रिये इति कादाचित्पुनः परिपूर्णमपि सा क्षाद्यथा ज्ञानादित्रिकमिति न कश्चिद्दोषः, त्रिविधः पिण्डः, पुनः 'ज्ञानादित्रिक ज्ञानदर्शनचारित्राणि, चतुर्विधः पिण्डो ज्ञानदर्शनतपःसंयमाः, पञ्चविधः पञ्चन्नतानि-प्राणातिपातमृषावादादत्तादानमैखुनपरिग्रहनिवृत्तिलक्षणानि, अत्रापिज्ञानदर्शनअन्तर्भूतेविवक्षितेइतिनपृतगाणिते,रात्रिभोजनविरमणमप्येतेषुपञ्चसुयथायोगमन्तर्भूतं विवक्षितंततोनपञ्चविधत्वव्याघातः, एवमुत्तरत्वापियथायोगमन्तर्भावभावनाभावनीया,षयिधोभावपिण्डषड्व्रतानि, तत्रपञ्चव्रतानिपूर्वोक्तान्येवप्राणातिपातविरमणादीनिषष्ठंतुरात्रिभोजनविरमणलक्षणं, तथा सप्तविधेपिण्डे-सप्तपिण्डैषणाःसप्तपानैषणाःसप्तअवग्रहप्रतिमाः, तत्रपिण्डैषणा:पानैषणाश्चसप्तसंसृष्टादयः ताश्चेमाः ससट्टम संसट्ठा उद्धड तह अप्पलेवडा चेव। उग्गहिया पग्गहिया उम्झियधम्मा य सत्तमिया॥
अवग्रहप्रतिमा बसतिविषयनियमविशेषाः तथाऽष्टविधः पिण्डोऽष्टौ प्रवचनमातरः, ताश्च पञ्च समितयस्तिस्त्रो गुप्तयः, तथा नवविधः पिण्डो नव बह्यचयगुप्तयः, तासांचेदं स्वरूपं ।
वसहि कह निसिजिदिय कुटुंतर पुव्वकीलिय पणीए। अइमायाहार बिभूसणं च नव बंभगुत्तीओ॥ 'तथा चेत्ति समुञ्चये, दशविधः पिण्डो दशप्रकार: श्रमणधर्मः, स चायं
खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे । सञ्चं सोयं आकिंचणं च बंभं च जइधम्मो ।
प्रशस्तभावपिण्डस्योपसंहारमाह-एसा' इत्यादि. 'एष'दशप्रकारोऽपि भावपिण्डः काष्टकमर्थनःतीर्थकृदिभमणितः, अनेन स्वपनाधिका व्युदासमाह।। सम्प्रति अप्रशस्तंभावपिण्डं दशविधमपि क्रयणाह'अपसत्यो य' इत्यादि. अप्रशस्तः पुनर्भावपिण्ड एकविधाऽसंयमाविरत्यभावः, अत्राज्ञानमिथ्यात्वादीनि साण्यप्यन्तर्भूतानि विवक्ष्यन्ते ततो न कश्चिद्दोषः, द्विविधोऽज्ञानाविरती, चशब्दो मिथ्यात्वशब्दानन्तरं योजनीयः, अमिथ्यात्वकषायादयःसर्वेऽप्यत्रैवान्तर्भूता विवक्षितास्ततोनद्विविधत्वव्याघातः, एवमुत्तरत्राप्यन्तर्भावभावनीया. त्रिविधो मिथ्यात्वं चशब्दादज्ञानाविरती च. चतर्विधः चत्वारः क्रोधादयः क्रोधमानमायालोभाःपञ्चाश्रवद्वाराणिप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरूपाणि,षड्विधः काय'त्ति कायवधाः-पृथिवीकायिकादिविनाशाः.सप्तविधः कर्मणि-कर्मविषयो द्रष्टव्यः इहकर्मशब्देनकर्मबन्धनिवन्धनभृताअध्यवसायागृह्यन्ते.भावपिण्डाधिकारात.ततआयुर्वजशेषसतकर्मबन्धनिबन्धन-भूताःकाषायिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org