SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ मूलं- १३ २४३ मानत्वात्, अक्षादिगतपरमाणुसङ्घातस्य चाविवक्षणादसद्भवतः पिण्डस्थापना, चित्रकर्मण्यपि यदा एकविद्धालिखनेन पिण्डस्थापना यषैव पिण्ड आलिखित इति विवक्षा तदा प्रभूतद्रव्यसंश्लेषाकारादर्शनादसद्भावपिण्डस्थापना, यदा पुनरेकबिन्द्वालिखनेऽपि एष मया गुडपिण्ड ओदनपिण्डः सक्तु पिण्डो वाऽऽ लिखित इति विवक्षा तदा सद्भावतः पिण्डस्थापना ।। अमुमेव सद्भावासद्भावस्थापनाविभागं - मू. (१४) इक्को उ असब्भावे तिह्मं ठवणा उ होइ सब्भावे । चित्तेसु असम्भावे दारुअलेप्पोवले सिवरो ॥ [भा. ७] वृ. एकोऽक्षो वराटकोऽङ्गुलीयकादिर्वा यदा पिण्डत्वेन स्थाप्यते तदा सा पिण्डस्थापना 'असद्भावे' असद्भावविषया, असद्भाविकीत्पर्थः, तत्र पिण्डाकृतेरनुपलभ्यमानत्वात्, अक्षादिगतपरमाणुसङ्घातस्य चाविवक्षणात् । यदातु त्रयाणामक्षाणांवराटकानामङ्गुलीयकादीनांवापरस्परमेकत्रसंश्लेषणकरणेन पिण्डत्वेन स्थापनातदासापिण्डस्थापना 'सद्भावे' सद्भाविकी, तत्रपिण्डाकृतेरुपलभ्यमानत्वात्, त्रयाणांचेत्युपलक्षणं तेन द्वयोरपि बहूनां चेत्यपि द्रष्टव्यं । तथा 'चित्रेषु' चित्रकर्मसु यदैकबिद्धालिखनेन पिण्डस्थापना तदा साऽप्यसद्भावे, यदा तु चित्रकर्मस्वपि अनेकविन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसङ्गातात्मकपिण्डस्थापना तदासा सद्भावस्थापना, पिण्डाकृतेस्तत्रदर्शनात्। तथादारुकलेप्योलेषु पिण्डाकृतिसम्पादनेनयापिण्डस्य स्थापनास‘इतरः’सद्भावस्थापनापिण्डः, तत्रपिण्डाकारस्यदर्शनात् ॥ तदेवमुक्तः:स्थापनापिण्डः, सम्पतिद्रव्यपिण्डस्यावसरः, नोआगमतस्त्रिधा, तद्यथा - ज्ञशरीरद्रव्यपिण्डः भव्यशरीरद्रव्यपिण्डः शरीरभव्यशरीरंव्यतिरिक्त द्रव्यपिण्डच, तत्र पिण्डशब्दार्थज्ञस्य यच्छरीरं सिद्धशिलातलादिगतमपगतजीवितं तद्भूतपिण्डशब्दार्थपरिज्ञानकारणत्वात् ज्ञशरीरद्रव्यपिण्डः, यस्तु बालको नेदानीमवबुध्यते पिण्डशब्दार्थम् अथ चावश्पमायत्यां तेनैव शरीरेण परिवर्द्धमानेन भोत्स्यते स भावपिण्डशब्दार्थपरिज्ञानकारणत्वाद् भव्यशरीरद्रव्यपिण्डः ॥ शरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यपिण्डं निर्युक्ति कृदाह मू. (१५) तिविहो उ दव्वपिंडो सच्चित्तो मीसओ अचित्तो य ।. एक्केक्स य एत्तो नव नव भेआ उपत्तेयं ॥ वृ. ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यपिण्डस्त्रिधा, तद्यथा - सचित्तो मिश्रोऽचित्तश्च तत्र मिश्रः, सचित्ताचित्तरूपः, इह पृथिवीकायादिकः पिण्डत्वेनाभिधास्यते, स च पूर्वे सचितो भवति, ततः स्वकायशस्त्रादिभिः प्रासुकीक्रियमाणः कियन्तं कालं मिश्रो भवति, तत ऊर्ध्वमचितः, तत एतदर्थख्यापनार्थं सचित्तमिश्राचित्ताः क्रमेणोक्ताः । 'इतो' भेदत्रयाभिषाधानदनन्तरम्' एकैस्य' सचित्तादेभेदस्य प्रत्येकं नव नव भेदा वाच्या भवन्ति । मू. (१६) पुढवी आउक्काओ तेऊ वांऊ वणस्सई चेव । बेsदिय ते इंदिय चउरो पंचेंदिया चेव ॥ वृ. इह पिण्डशब्दः पूर्वगाथातोऽनुवर्त्तमानः प्रत्येकं सम्बध्यते, तद्यथा- पृथिवीकायपिण्डोऽपूकायपिण्डतेजस्कायपिण्डो वायुकायपिण्डो वनस्पतिकायपिम्डो द्वीन्द्रियपिण्डस्त्रीन्द्रियपिण्डचतुरिन्द्रियपिण्डः पञ्चेन्द्रियपिण्डश्रं ॥ सम्प्रत्यमीषामेव नवानां भेदानां सचित्तत्त्वादिकं बिभावयिषुः पृथिवीकाये भावयतिमू. (१७) पुढवीकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुन दुविहो निच्छयववहारओ चेव ॥ वृ. पृथिवीकायस्त्रिविधः, तद्यथा - सचित्तो मिश्रोऽचित्तश्च, सचितः, पुनर्द्विधा, तद्यथा- निश्चयतो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy