SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२७ मृलं-१०९४ मिति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति । किश्चन केवलं ज्ञानादीनां यष्टिरुपकरणं वर्तते, अन्यदपि यज्झानादीनामुपकरोति तदेवोपकरणमुच्यते. एतदेवाहमू. (१०९५) जंजुज्जइ उवकरणे उवगरणं तं सि होइ उवगरणं। अतिरेगं अहिगरणं अजतो अजयं परिहरंतो। वृ. यदुपकरणं पात्रकादि उपारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोभवति, यत्पुनरतिरेकं ज्ञानादीना मुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः ?- 'अयतः' अयत्नवान् अयतं' अयतनया परिहरन्' प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो'त्ति इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्तत इति। किञ्चमू. (१०९६) उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं।। जवहिं धारए भिक्खू, पगासपडिलहणं ।। मू. (१०९७) उग्गमउप्पायणासुद्धं. एसणादोसवज्जियं। उवहिं धारए भिक्खू, जोगाणं साहणट्ठया॥ मू. (१०९८) उग्गमउप्पायणासुद्धं, एसणादोसविज्जियं। उवहिं धारए भिक्खू, अप्पदुट्ठो अमुच्छिओ॥ मू. (१०९९) अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो। अप्परिग्गहीत्ति भणिओ जिनेहिं तेलुक्कदसीहिं॥ उग्गमउप्पायणासुद्धं, एसणासदोसवज्जियं। उवहिं धारए भिक्खू, सदा अज्झत्थसोहिए। वृ. एवंगुणविशिष्टामुपधिंधारयेभिक्षुः, किंविशिष्टामित्यत आह-पगासपडिलेहणं' प्रकाशे-प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्तामेवंगुणविशिष्टामुपधिं धारयेत्, एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते न तु महार्धमौल्याचौरभयादभ्यन्तरे या क्रियते साताद्दशी उपधिर्धारणी. येति। सुगमा, नवरं योगाः संयमात्मका गृह्यन्ते तेषां साधनार्थमित्ति।सुगमा, नवरं अप्रद्विष्टः अमूर्च्छितः साधुरिति । सुगमा, नवरम्-अध्यात्मविशुद्धया हेतभूतया धारयेत् । किंच-पकरणं बाह्यं पात्रकादि 'परिहरंतो' प्रतिसेवयन्त्रपरिग्रहो भणितो जिनैस्त्रैलोक्यदर्शिभिः अतो यत्किश्चिद्वर्मोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद् बोटिकपक्षपाती-यधुपकरणसहिता अपि निर्गन्था उच्यन्तें एवं तर्हिगृहस्था अपि निर्ग्रन्थाः. यतस्तेऽप्युपकरणसहिता वर्तन्ते, अत्रोच्यते. .मू. (११०१) अज्झप्पविसोहीए जीवनिकाएहिं संथडे लोए। देसियमहिंसगत्तं जिनेहिं तेलोक्कदंसीहिं॥ वृ. नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या सत्युपकरणे निर्ग्रन्थाः साधवः, किञ्च-यद्यध्यात्मविशुद्धिनेष्यते ततः ‘जीवनिकाएहिं संथडे लोए'त्ति 'जीवनिकायैः' जीवसङ्गातैरयं लोक- संस्तृतो वर्तते, ततश्च जीवनिकायसंस्तृते-व्याप्ते लोके कथं नग्नकश्चङ्क्रमन् वधको न भवति यद्यध्यात्मविशुद्धिनेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमाहिंसकत्वं जिनैस्त्रैलोक्यदर्शिभिरिति । क्व प्रदर्शितं तदित्यत आहमू. (११०२) उच्चालियंमि पाए ईरियासमियस्स संकमट्ठाए। __वावज्जेज कुलिंगी मरिज्ज तं जोगमासज्जा॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy