SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ मूलं - ८०९ १८९ नालोचयति । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह - धर्मकथादिना वा व्याक्षिप्तः कदाचिद् गुरुर्भवति, विकथादिना वा प्रमत्तोऽन्यतोऽभिमुखो वा भवति, भुञ्जतोऽपि नालोचनीयं. किं कारणं ? - 'अंतर' ति अन्तरायं वा भवति यावदालोचनां श्रृणोति, अकारकं वा शीतलं भवति यावदालोचनां श्रृणोति । तथा नीहारमपि कुर्वतो नालोचनीयं किं कारणं ?. यत आशङ्कया साधुजनितया न कायिकादिर्निर्गच्छंति, अथ धारयति ततो मरणं वा भवति । यस्मादेते दोषास्तस्मात मू. (८१०) अव्वकिखत्ताउत्तं उवसंतमुवट्टिभं च नाऊणं । अणुन्नेवेत्तु मेहावी आलोएज्जा सुसंजए ॥ कहणाइ अवक्खित्ते कोहाइ अणाडले तदुवउत्ते । संदिसहत्ति अणुन्नं काऊणं विदिन्नमालोए ॥ मू. (८११) [भा. २६८ ] वृ. धर्मकथादिनाऽव्याक्षिप्ते गुरौ आलोचयेत्, आयुक्तं - उपयोगतत्परं, 'उपशान्तं' अनाकुलं गुरुं • दृष्ट्वा 'उपस्थित' उद्यतं च ज्ञात्वा एवंविधं गुरुमनुज्ञाप्य मेधावी आलोचयेत 'सुसंयतः' साधुः । इदानीमेतामेव गाथा व्याख्यानयन् भाष्यकृदाह-धर्मकथादिनाऽव्याप्ति क्रोधादिभिरनाकुले तदुपयुक्तेभिक्षालोचनापयुक्ते च 'संदिसहत्ति अणुन्नं काऊणं' संदिशत आलोचयामीत्येवमनुज्ञां कृत्वा मार्गयित्वेत्यर्थः, ‘विदिन्ने’त्ति आचार्येण विदिन्नायामनुज्ञायां भणत इत्येवं लक्षणायां तत आलोचयेत् । तेन च साधुनाऽऽलोचयता एतानि वर्जनीयानि - मू. (८१२) मू. (८१३) लंचलं भासं सूर्य तह ढड्डुरं च वज्जेज्जा । आलोएज्ज सुविहिओ इत्थं भत्तं च वावारं ॥ करपाय भमुहिसीसऽच्छिउट्टिमाईहि नट्टिअं नाम । वलणं हत्थसरीरे चलनं य भावे य ॥ गारत्थियभासाओ य वज्जए भूय ढड्ढरं च सरं । आलोए वावारं संसट्टियरे व करमत्ते ॥ [भा. २६९] मू. (८१४) [ भा. २७० ] वृ. नृत्यन्नालोचयति वलन्नालोचयति अंगानि चलयन्नालोचयति, तथा भाषमाणो गृहस्थभाषया नालोचयति, किं तर्हि ? - संयतभाषयाऽऽलोचयति, तद्यथा-सुयारियाउ इत्येमवादि, तथा चालोचयन् मुकेन स्वरेण नालोचयति मिणमिणतं. तथा ढड्डुरेण च स्वरेण उच्चैर्नालोचयति, एवंविधं स्वरं वर्जयेत । किं पुनरसावालोचयतीत्यत आह- -आलोचयेत्सुविहितो हस्तमुदकस्निग्धं, तथा 'मात्रकं' गृहस्थसत्कं कडुच्छुकादि - उदकार्द्रादि, तथा गृहस्थया कतमं व्यापारं कुर्वत्या, भिक्षा दत्तेत्येतञ्चालोचयति । इदानीमेतामेव गाथां व्याख्यानयन्नाह - करस्य तथा पादस्य ध्रुवः शिरसः अक्ष्णः ओष्ठस्य च एवमादीनामङ्गानां सविकारं चलनं नर्त्तनं नाम, एतत् कुर्वन्नोलचयति, वलनं हस्तस्य शरीरस्य कुर्वन्नालोचयति, तथा चलनं कायस्य करोति मोटनं तत्कुर्वन्नालोचयति, तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति अक्तवियक्तं ।। आलोचयन् गृहस्थभाषया नालोचयति, यथा “सुग्गीओ (लंगणीओ) लाओ मंडया लगा” इत्येमवादि, किन्तु संयतमाषयाऽऽ' लोचनीयं “सुयारियाउ” इत्येमवादि, मूकस्वरं मूकस्वरं मनाक ढडुरं च महान्तं स्वरं वर्जयन्नालोचयति, किमालोचयति ? - “व्यापारंगृहस्थयोः संबन्धिनं, तथा 'संसृष्टमम् ' उदकार्द्रादि, ‘इतरं’ असंसृष्टं किं तत् ? - करं संसृष्टमसंसृष्टं च उदकेन, तथा 'मात्रकं' गृहस्थसत्कं कुण्डलिकादि उदकसंसृष्टमसंसृष्टं चेति, एतदालोचयत् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy