SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ ओघनियुक्तिः मूलसूत्र षट्कायवथथ भण्डकपतने सति भवति, एवं गुरुके भण्डके एते दोषा भवन्ति । एतामेव गाथां भाष्यकृदाहगुरुदव्वे व पिहिअं सयं व गुरुयं हवेज्ज जं दव्वं । . उक्ख्वे निक्ख्वे कडिभजणं पाय वरिं वा ॥ मू. (७६९) [भा. २५९ ] वृ. गुरुद्रव्येण वा 'पिहितं' घट्टितं तद्रव्यं भवेत्, स्वयं वा तद्रव्यं गुडपिण्डादि गुरुकं भवेत् ततश्च तस्य 'उत्क्षेपे' उत्पाटने निक्षेपे च पुनमोचने सति कटिभङ्गो भवति, पादस्योपरि पतेत्ततश्रात्मविराधना भवति । 'महल्लया' इति व्याख्यानयन्नाह मू. (७७०) महल्लेण देहि मा डहरएण भिन्ने अहो इमो लुद्वो । उभए एगतरवहो दाहो अच्चुण्ह एमेव ॥ [भा. २६० ] वृ. कचित्साधुः कडुच्छिकया ददतीं स्त्रियं एवं ब्रूते यदुत 'महल्लाण' बृहता भाजनेन स्थाल्यादिना देहि, मा 'इहरकेण' लघुना प्रयच्छ कडुच्छुकादिना, ततः सा तथैव करोति, अशक्नुवत्याच कदाचित्तद्भाजनं भज्यते ततो भिन्ने सति तस्मिन् भाजने गृहस्थ एवं भणति यदुताहो । अयं साधुर्महालुब्धः येन बृहता भाजनेन दीयमानं गृह्याति, तत 'उभयस्य' साधु गृहस्थयोः पादस्योपरि पतितेन भण्डकेन वधो भवति, एकतरस्य वा वधो भवति, तथा दाहश्च अत्युष्णे तस्मिन् द्रव्ये पतिते सति भवति 'एमेव 'त्ति उभयोरन्यतरस्य वा ॥ इदानीं 'अचियत्ते' त्ति व्याख्यानयन्नाह - मू. (७७१) Jain Education International बहुगहणे अचियतं वोच्छेओ तद्दन्न दव्वं तस वावि । छक्कायाण य वहणं अइमत्ते तंमि मत्तंमि ॥ [ भा. २६१] वृ. बहुग्रहणे तस्य घृतादिद्रव्यस्य 'अचियत्तं' अप्रीतिर्भवति तस्य तद्भहपतेर्वा, व्यवच्छेदो वा तदन्यस्य द्रव्यस्य भवतितस्माद्- घृतादेः अन्वद्-क्षीरगुडादि तस्य व्यवच्छेदो भवति, तस्य वाघृतादेर्द्रव्यस्य वा व्यवच्छेदो भवतीति, तथा षट्किायानां वा हननं भवति ' अतिमात्रे' बृहत्प्रमाणे 'मात्रके' स्थायादौ गृहीते सति । उक्तं गुरुकद्वारं, त्रिविधेतिद्वारंप्रतिपादयन्नाह मू. (७७२) तिविहो य होइ कालो गिम्हो हेमंत तह य वासासु । तिविहो य दायगो खलु थी पुरिस नपुंसओ चेव ॥ एक्किक्कोवि अतिक्हो तरुणो तह मज्झिमो य थेरो य । सीओ नपुंसो सोम्हित्थी मज्झिमो पुरिसो ॥ मू. (७७३) वृ. कालस्त्रिविधो भवति, तद्यथा- ग्रीष्मो हेमन्तो वर्षा च, तत्र त्रिविधेऽपि काले दाता त्रिविध एव भवति, स्त्री पुमान्नपुंसकं चेति ॥ पुनः म एकैकख्यादिदाता त्रिविधो भवति - तरुणो मध्यमः स्थविरश्च । इदानीं नपुंसकदीनां स्वरूपप्रतिपादनायाह- शीतलतनपुंसको भवति, 'सोम्हित्थि' त्ति सोष्मा स्त्री भवति, मध्यमश्र पुरुषो भवति नाप्युष्णो 'तिशीतल इति ॥ मू. (७७४) पुरकम्मं उदडलं समणिद्धं तंपि होइतिविहं तु । इक्किक्कंपि य तिविहं सच्चित्ताचित्तमीसं तु ॥ वृ. न केवलं कालदयस्त्रिविधाः यदपि तत्पुरःकर्मादि तदपि त्रिविधं, तद्यथा- पुरःकर्म उदकार्द्र सस्निग्धं चेति, तत्पुनरेकैकं त्रिविधं सचित्ताचित्तमिश्रभेदभिन्नं भवति, एतदुक्तं भवति यत्पुरः कर्म तत्सचित्तमचित्तं मिश्रं चेति, यदपि उदकार्यं तदपि सचित्तमचित्तं मिश्रं चेति, यदपि सस्निग्धं तदपि सचित्तमच्चित्तं मिश्र चेति । इदानीं यत्तदुक्तं पुरःकर्मादित्रितयं तत्राद्यद्वयस्य प्रतिषेधं कुर्वन्नाह For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy