________________
अध्ययनं -४- [नि. १२७०]
७७ (नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोएसव्वसाहणं, एसो पंचनमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढम हवइमंगलं)
मू. (११) करेमिभंते! जाव वोसिरामि ।
वृ- तल्लक्षणं चेदं-'संहिता च पदं चैवे' त्यादि, अधिकृतसूत्रस्य व्याख्यालक्षणयोजना च सामायिकवद्रष्टव्या, आह-इदंस्वस्थानएवसामायिकाध्ययने उक्तंसूत्रं, पुनः किमभिधीयते ?, पुनरुक्तदोषप्रसङ्गात्, उच्यते, प्रतिष्धिसेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम्,
यद्वद्विषघातार्थमन्त्रपदेन पुनरुक्तदोषोऽस्ति ।
__ तद्वद् रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ।। रागविषघ्नं चेदं, यतश्च मङ्गलपूर्वं प्रतिक्रान्तव्यम् अतःसूत्रकार एव तदभिधित्सुराहमू. (१२) चत्तारि मंगलं अरिहंता मंगलं सिद्धामंगलं साहू मंगलं केवलिपन्नत्तो धम्मो मंगलं । वृ- मङ्गलं प्राग्निरुपितशब्दार्थ, तत्र चत्वारः पदार्थो मङ्गलमिति, क एते चत्वारः ? तानुपदशयन्नाह-'अरिहंता मंगल मित्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरुपां पूजामर्हन्तीत्यर्हन्तस्ते-ऽर्हन्तो मङ्गलं, सितंध्मातं येषांते सिद्धाः, ते सिद्धा मङ्गलं, निर्वाणसाधकान् योगान्साधयन्तीति साधवः, तेच मङ्गले, साधुग्रहणादाचार्योपाध्याया गृहीता एव द्रष्टव्याः, यतो न हितेन साधवः, धारयतीति धर्मः, केवलमेषां विद्यत इति केवलिनः, केवलिभिः-सर्वज्ञैः प्रज्ञप्तः-प्ररुपितः केवलिप्रज्ञप्तः, कोऽसौ ?-धर्मः-श्रुतधर्मश्चारित्रधर्मश्च मङ्गलम्, अनेनकपिलादिप्रज्ञप्त-धर्मव्यवच्छेदमाह । अर्हदादीनांचमङ्गलता तेभ्य एव हितभङ्गलात्सुखप्राप्तेः, अतएव च लोकोत्तमत्वमेषामिति, आह
मू. (१३) चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो।
वृ-अथवा कुतः पुनरर्हदादीनांमङ्गलता?, लोकोत्तमत्वात्, तथा चाऽऽह-‘चत्तारि लोगुत्तमा' चत्वारः-खल्वनन्तरोक्ता वक्ष्यमाणा वा लोकस्य-भावलोकादेरुत्तमाः-प्रधानालोकोत्तमाः,क एते चत्वारस्तानुपदर्शयन्नाह- 'अरहंता लोगुत्तमा, इत्यादि, अर्हन्तः-प्राग्निरुपितशब्दार्थाः, लोकस्यभावलोकस्य उत्तमाः-प्रधानाः, तथा चोक्तम्
अरिहंता ताव तर्हि उत्तमा हुन्ती उभावलोयस्स । कम्हा ।, जंसव्वासिं कम्मपयडीपसत्थाणं ।। अनुभावंतु पडुच्चा वेअणियाऊण नामगोयस्स ।
भावस्सोदइयस्सा नियमा ते उत्तमा होति ।। एवं चेव य भूओ उत्तरपगईविसेसणविसिटुं । भण्णइ हु उत्तमत्तं समासओ से निसामेह ।। साय मनुयाउ दानी नामप्पगईसमा पसत्थाय । मनुगइ पणिदिजाई ओरालियतेयकम्मंच ।। ओरालियंगुवंगा समचउरंसं तहेव संठाणं । वइरोसभसंघयणं वण्णरसगंधफासाय ।। अगुरुलहुं उवघायं परघाऊसासविहगइ पसत्था । तसवायरपज्जत्तग पत्तेयथिराथिराइंच ।। सुभमुज्जोयं सुभगंसुसरं आदेज तह य जसकित्ती । तत्तो निम्मिणतित्थगर नामपगईसमेयाई ।। तत्तो उच्चागोयं चोत्तीसेहि सह उदयभावेहिं । ते उत्तमा पहाणा अनन्नतुल्ला भवंतीह ।। उवसमिए पुन भावो अरहताणं न विजई सो हु ।खाइगभावस्स पुणो आवरणाणं दुवेण्हंपि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org