SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७० आवश्यक-मूलसूत्रम् -२- ४/१० गोसे आणावियाणि, सम्भावं पुच्छिएण कहियं रयएण, एस दव्वविसोही, एवं साहुणावि अहीनकालभायरियस्स आलोएयव्वं, तेन्न विसोही कायव्वत्ति, अगओ जहा नमोक्कारे, एवं साहुणाऽवि निंदाऽगएणअतिचारविसं ओसारेयव्वं, एसा विसुद्धी ।। उक्तान्येकार्थिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाहनि. (१२४३) आलोवणमालुंचन वियडीकरणंच भावसोही य । आलोइयंमि आराधना अनालोइए भयणा ।। वृ- अवलोचनम् आलुञ्चनं विकटीकरणं च भावशुद्धिश्च, यथेह कश्चिन्निपुणो मालाकारः स्वस्यारामस्य सदा द्विसन्ध्यभवलोकनं करोति, किंकुसुमानि सन्ति? उत नेति, दृष्ट्वा तेषामालुञ्चनं करोति, ग्रहणमित्यर्थः, ततो विकटी करणं, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः, चशब्दात्पश्चाद्ग्रन्थनं करोति, ततो ग्राहका गृह्णन्ति, ततोऽस्याभिलषितार्थलाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद, अन्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमीः प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्गस्थोऽनुप्रेक्षते सूत्रं, गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चादालुञ्चनं स्पष्टबुद्धयाऽपराधग्रहणं, ततो विकटीकरणं गुरुलधूनामपराधानां विभजनं, चशब्दादालोचनाप्रतिसेवनाऽनुलोमेन ग्रन्थनं, ततो यथाक्रम गुरोर्निवेदनं करोति, एवं कुर्वतोभावशुद्धिरूपजायते, औदयिकभावातक्षायोपशमिकप्राप्तिरित्यर्थः, इत्थमुक्तेन प्रकारेण 'आलोचिते' गुरोरपराधजाले निवेदिते 'आराधना' मोक्षमार्गाखण्डना भवति, 'अनालोचिते' अनिवेदिते 'भजना' विकल्पना कदाचिद्भवति कदाचिन्नभवति, तत्रेत्यं भवति 'आलोयणापरिणओसम्मंसंपट्टिओ गरुसगासं। जइ अंतरावि कालं करिज्ज आराहओ तहवि ।।' एवं तुन भवति- इड्डीए गारवेणं बहुस्सुयमएण वावि दुच्चरियं । जो न कहेइ गुरूणंन हुसोआराहओभणिओ ।।' त्ति गाथार्थः इथं चालोचनादिप्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थेसातिचारेण निरतिचारेण वा साधुनाशुद्धिः कर्तव्या, मध्यमतीर्थकरतीर्थेषु पुन वं, किन्त्वतिचारवतएव शुद्धिः क्रियत इति, आहचनि.(१२४४) सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिनस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ।। वृ- सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालंचापराधो भवतुमा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमादबहुलत्वाच्च, एतेष्वेवस्थानेपु 'मध्यमानां जिनानाम' अजितादीनां पार्श्वपर्यन्तानां ‘कारणजाते' अपराध एवोत्पन्ने सति प्रतिक्रमणं, ति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः ।। तथा चाहनि.(१२४५) जो जाहे आवन्नो साहू अन्नयरयंमि ठाणंमि । सो ताहे पडिक्कम मज्झिमयाणं जिनवराणं ।। वृ- ‘यः' साधुरितियोगः ‘यदा' यस्मिन काले पूर्वाह्नादौ 'आपन्नः' प्राप्तः ‘अन्यतरस्मिन् स्थाने' आ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy