SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आवश्यक-मूलसूत्रम् -२-४/१० तुयत्र क्षेत्रेव्यावर्ण्यते क्रियते वा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन व्यावर्ण्यते क्रियतेवा कालस्य वा विकालादेवर्षासु वा विहारस्येति, भाववारणेदानीं, सा च द्विविधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौधत एवोपयुक्तस्य सम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत्त वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तनं निवृत्तिः, साचषोढा, यत आहनि. (१२३८) नामं ठवणा दविए खित्ते काले तहेव भावेय । एसोय नियत्तीए निक्खवो छव्विहो होइ ।। वृ- नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्धया वक्तव्यः, यावतप्रशस्तभावनिवृत्त्येहाधिकारः । निन्देदानी, तत्र ‘णिदिकुत्सायाम् अस्य 'गुरोश्च हलः' इत्यकारः टाप, निन्दनं निन्दा, आत्मऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः षोढा भवति, तथा चाहनि.(१२३९) नामंठवणा दविए खित्ते काले तहेव भावेय । एसो खलु निदाए निक्खेवो,छव्विहो होइ वृ-तत्र नामस्थापने गतार्थे, द्रव्यनिन्दा तापसादीनाम अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निह्नवस्याशोभनद्रव्यस्य वेति, क्षेत्रनिन्दायत्रव्याख्यायते क्रियतेवा संसक्तस्य वेति, कालनिन्दा यस्मिन्निन्दा व्याख्यायते क्रियते वा दुर्भिक्षादेर्वा कालस्य, भावनिन्दा प्रशस्तेतरभेदो, अप्रशस्ता संयमाद्याचरणविषया, प्रशस्ता पुनरसंयमाद्याचरणविषयेति हा ! दुट्ठ कयं हा! दुटु कारियं दुल अनुमयं हत्ति । अंतो २ डज्झइ झुसिरुव्व दुभो वनदवेणं ।।' अथवौघत एवोपयुक्तसम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता स्फुटेतिगाथार्थः ।। गर्थेदानीं, तत्र गर्ह कुत्साया' मस्य 'गुरोश्च हल' इत्यकारः टाप, गर्हणं गर्हा-परसाक्षिकी कुत्सैवेति भावार्थः, साचनामादिभेदतः षोलैवेति, तथा चाहनि.(१२४०) नामं ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु गरिहाए निक्खेवो छव्विहो होइ ।। वृ- नामस्थापने गतार्थे, द्रव्यगर्हा तापसादीनामेव स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निह्नवस्येत्यादिभावार्थो वक्तव्यः, यावत्प्रशस्तयेहाधिकारः । इदानीं शुद्धिः 'शुध शौचे' अस्य स्त्रियां क्तिन्, शोधनं शुद्धिः, विमलीकरणमित्यर्थः, सा च नामादिभेदतः षोद्वैव, तथा चाहनि.(१२४१) नामंठवणा दविए खित्ते काले तहेव भावे य । एसो खलु सुद्धीए निक्खेवो छव्विहो होइ ।। वृ- तत्र नामस्थापने गतार्थे, द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेरुपयुक्तस्य वा निह्नवस्य वस्त्रसुवणदिर्वा जलक्षारादिभरिति, क्षेत्रशुद्धिर्यत्र व्यावर्ण्यते क्रियते वाक्षेत्रस्य वा कुलिकादिनाऽस्थ्यादिशल्योद्धरणमिति, कालशुद्धिर्यत्रव्यावर्ण्यते क्रियते वा शङ्क्वादिभिर्वा कालस्य शुद्धिः क्रियत इति, भावशुद्धिर्द्विधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमल्याधानं स्पष्टतापादनमित्यर्थः, अथवौघत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy