________________
४५
अध्ययनं -३- [नि. ११७०]
कहते विसुद्धचरणा बाहिरकरणालसा हुँति ।। वृ-'संयमयोगेषु पृथिव्यादिसंरक्षणादिव्यापारेषु 'सदा' सर्वकालं ये पुनःप्राणिनः ‘संतविरियावि सीयंति'त्ति विद्यमानसामर्थ्याअपिनोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीतियोगः?, नैवेत्यर्थः, बाह्यकरणालसाः सन्तः-प्रत्युपेक्षणादिबाह्यचेष्टारहिता इति गाथार्थः ।।
आह-ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्तितेषु का वार्तेति?, उच्यतेनि.(११७१) आलंबनेन केणइजे मन्ने संयमंपमायति ।
नहुतं होइ पमाणं भूयत्थगवेसणंकुज्जा ।। वृ- आलम्ब्यत इत्यालम्बनं-प्रपततां साधारणस्थानं तेनालम्बनेन 'केनचित' अव्यवच्छित्यादिना ये प्राणिनः ‘मन्य' इति एवमहंमन्ये 'संयमम' उक्तलक्षणं प्रमादयन्ति' परित्यजन्ति, 'न हुतं होइ पमाणं' नैव तदालम्बनमात्रं भवति प्रमाणम्-आदेयं, किन्तु ? 'भूतार्थगवेषणं कुर्यात्' तत्त्वार्थान्वेषणं कुर्यात-किमिदं पुष्टमालम्बनम् ? आहोस्विन्नेति, यद्यपुष्टमविशुद्धचरणा एव ते,
अथ पुष्टं विशुद्धचरणा इति गाथार्थः ।। अपरस्त्वाह-आलम्बनात्को विशेष उपजायते ? येन विशुद्धचरणा भवन्तीतिः अत्रदष्टान्तमाहनि. (११७२) सालंबणो पडतो अप्पाणं दुग्गमेऽपिधारेइ ।
इय सालंबणसेवा धारेइजइंअसढभावं ।। वृ- इहालम्बनं द्विविधं भवति-द्रव्यालम्बनं भावालम्बनं च, द्रव्यालम्बनं गर्तादौ प्रपतता यदालम्ब्यते द्रव्यं, तदपि द्विविधम्-पुष्टमपुष्टं च, तत्रापुष्टं दुर्बलं कुशवच्चकादि पुष्टं तु बलवत्कठिनवल्यादि, भावालम्बनमपिपुष्टापुष्टभेदेन द्विधैव, तत्रापुष्टं ज्ञानाद्यपकारकं, तद्विपरीतं तुपुष्टमिति, तच्चेदं
'काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं ।
गणंव नीइ वहुसारविस्सं, सालंबसेवी समुवेइ मुक्खं ।।" तदेवं व्यवस्थिते सतिसहालम्बनेन वर्तत इति सालम्बनः, असौ पतन्नपि आत्मानं 'दुर्गमेऽपि' गर्तादौ धारयति, पुष्टालम्बनप्रभावादिति, 'इय' एवं सेवनसेवा प्रतिसेवनेत्यर्थः, सालम्बना चासौ सेवा च सालम्बनसेवा सा संसारगर्ते प्रपतन्तं धारयति यतिमशठभावं-मातृस्थानरहितीमत्येष गुण इतिगाथार्थः ।। साम्प्रतं सिसाधयिषितार्थव्यतिरेकं दर्शयन्नाहनि. (११७३) आलंबणहीनो पुण निवडइ खलिओ अहे दुरुत्तारे ।
इय निक्कारणसेवी पडइभवोहे अगाहमि ।। वृ-आलम्बनहीनः पुनर्निपतति स्खलितः, क्व ?- अहे दुरुत्तारे'त्ति गर्तायां दुरुत्तारायाम, ‘इय' एवं 'निष्कारणसेवी' साधुः पुष्टालम्बनरहित इत्यर्थः, पततिभवौघे अगाधे' पततिभवगर्तायामगाधायाम्, अगाधत्वं पुनरस्या दुःखेनोत्तारणसम्भवादिति गाथार्थः ।। गतं सप्रसङ्ग दर्शनद्वारम्, इदानीं 'नियावासे'त्ति अस्यावसरः, अस्य च सम्बन्धो व्याख्यात एव गाथाक्षरगमनिकायां, स एव लेशतः स्मार्यते-इह यथा चरणविकला असहायज्ञानदर्शनपक्षमालम्बन्ति एवं नित्यवासाद्यपि, नि.(११७४) जे जत्थ जया भग्गा ओगासं ते परं अविंदंता ।
गंतुंतत्थऽचयंता इमं पहाणंति घोसंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org