________________
२५२
आवश्यक मूलसूत्रम् -२-५/३७
ओहाडियमव्वत्तं च होइ पाएण चित्तंति ॥ वृ- 'अचिरोववन्नगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूर्छिताव्यक्तमथसुप्तानां-मूर्छितानामभिधातदिना अव्यक्तानाम्-अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत्पुनरव्यक्तं कीगित्याह-'ओहाडियमव्वत्तं च होइ पाएण चित्तं तु' 'ओहाडिय' न्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं च-अव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः ।। स्यादेतत्-एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति ?, अत्रोच्यते, नैतदेवं । नि. (१४८३) गाढालंबनलग्गं चित्तं वुत्तं निरयणं झाणं ।
सेसं न होइ झाणं मउअमवत्तं भमंतं वा ॥ वृ- यस्मात्-आलम्बने लग्नं २ गाढमालम्बने लग्नं २ एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं-अन्तः करणं उक्तं-भणितं, निरेजन-निष्प्रकम्पं ध्यानं, यतश्चैवमतः शेषं-यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं? - मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अवयक्तं पूर्वोक्तं भ्रमन्वा-अनवस्थितं वेति गाथार्थः ॥ आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति ?, अत्रोच्यतेनि. (१४८४) उम्हासेसोवि सिही होउं लद्धिंधनो पुणो जलइ ।
इय अवत्तं चित्तं होउं वत्तं पुणो होइ । वृ- 'उम्हासेसोवि' उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी-अग्निभूत्वा लब्धेन्धनःप्राप्तकाष्ठादिः सन् पुनर्चलति, ‘इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा, व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः ॥ इत्थं प्रासङ्गिक कियदप्युक्तं, अधुना प्रक्रान्तवस्तु-शुद्धिः क्रियते, किंच प्रक्रान्तं ?, कायिकादि त्रिविध ध्यानं, यत उक्तं-'भगियसुयं गुणतो वट्टइ तिविहेऽवि झाणंमि' इत्यादि, एवं च व्यवस्थिते ‘अन्तोमुत्तकालं चित्तस्सेगग्गया भवति झाणं' यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाहनि. (१४८५) पुव्वं च जं तदुत्तं चित्तस्सेगग्गया हवइ झाणं ।
आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ।। वृ. 'पुव्वं च जं तदुत्तं' ननु त्रिविधे ध्याने सति पूर्वं यदुक्तं चित्तस्येकाग्रता भवति ध्यानं 'अन्तोमुत्तकालं चित्तस्सेग्गया भवति झाणं'ति वचनात् चशब्दाद्यच्च तदूर्ध्वमुक्तं-भंगियसुयं गुणंतो वट्टइ तिविहेवि झाणंमि' तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किश्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रिया करोतीति अनेकाग्रता, आचार्य इदमनाद्दत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काक्वाऽऽह-'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न ध्यानमिति गाथार्थः ।। आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात, तथाहि-- नि. (१४८६)आ० मनसहिएण उ काएण कुणइ वायाइ भासई जं च ।
एयं च भावकरणं मनरहियं दव्वकरणं च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org