SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २५१ अध्ययनं-५- नि. १४७६] तनुः-शरीरमिति-एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं 'निरेइणो' निरेजिनोनिष्प्रकम्पस्य भवति ‘अजताभासविवजिस्स वाइयं झाणमेवं तु' अयताभाषाविवर्जिनोदुष्टवाक्परिहर्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकं, तुशब्दोऽवधारणार्थ इति गाथार्थः। साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाहनि. (१४७७) एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइयं झाणं ॥ वृ- ‘एवंविहा गिरा' एवंविधेति निरवद्या गीः-वागुच्यते 'मे'त्ति मया वक्तव्या ‘एरिस'त्ति ईशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः ।। एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिविधमपि दर्श्यतेनि. (१४७८) मनसा वावारंतो कायं वायं च तप्परीणामो । भंगिअसुअं गुणतो वट्टइ तिविहेवि झाणंमि ।। वृ- ‘मनसा वावारंतो' मनसा-अन्तः करणेनोपयुक्तः सन् व्यापारयन् कायं-देहं वाचंभारती च ‘तप्परीणामो' तत्परिणामो विवक्षित श्रुतपरीणामः, अथवा तत्परिणामो-योगत्रयपरिणामः स तथाविधः शान्तो योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं-दृष्टिवादान्तगतमन्यद् वा तथाविधं 'गुणंतो'त्ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्-कायव्यापारलक्षणे इति गाथार्थः ।। अवसितमानुषङ्गिकं, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्रनि. (१४७९) धम्मं सुकं च दुवे झायइ झाणाइँ जो ठिओ संतो।। एसो काउस्सग्गो उसिउसिओ होइ नायव्वो ॥ वृ-धर्मं च शुकुंच प्राक्प्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः, यस्यादिह शरीरमुत्सृतं भावोऽपि धर्मशुकुध्यायित्वादुत्सृत एवेति गाथार्थः ।। गतः खल्वेको भेदोऽधुना द्वितीयः प्रतिपाद्यतेनि. (१४८०) धम्मं सुक्कं च दुवे नवि झायइ नवि य अट्टरुदाई । एसो काउस्सग्गो दव्युसिओ होइ नायव्यो । वृ- 'धम्म सुक्कं' धर्मं शुकुंच द्वे नापि ध्यायति नापि आर्त्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थः ॥ आह-कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति ?, अत्रोच्यतेनि. (१४८१) पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥ वृ- 'पयलायंत' प्रचलायमान ईषत् स्वपन्नित्यर्थः, 'सुसुत्त'त्ति सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यान-धर्मशुकूलक्षणं अशुभं वा-आर्त्तरौद्रलक्षणं न व्यापारितं क्वचिद् वस्तुनि चित्त येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नैव शुभं ध्यायति ध्यानं नाशुभमिति गाथार्थः ।। नि. (१४८२) अचिरोववन्नगाणं मुच्छियअव्वत्तमत्तसुत्ताणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org www
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy