________________
२४८
आवश्यक मूलसूत्रम्-२-५/३७ नि. (१४६२) देहमइजडसुद्धी सुहदुक्खतितिक्खया अनुप्पेहा ।
___ झायइ य सुहं झाणं एयग्गो काउसग्गंमि ॥ वृ- 'देहमतिजड्डसुद्धी'ति देहजाड्यशुद्धिः-श्लेष्मादिप्रहाणतः मतिजाड्यशद्धिः तथावस्थितस्योपयोगविशेषतः, 'सुहदुक्खति-तिक्खय'त्ति सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अनुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायइ य सुहं झाणं' ध्यायति च शुभं ध्यानं धर्मशुकूलक्षणं, एकाग्रः-एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति, इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा भेदेनोपन्यस्तेति गाथार्थः ।।
इह ध्यायति च शुभं ध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत् आहनि. (१४६३) अंतोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं ।।।
तं पुन अट्टं रुदं धम्मं सुक्कं च नायव्वं ॥ वृ- 'अंतोमहुत्तकालं' द्विधटिको मुहूर्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मुहूर्त्तकालं चित्तस्यैकाग्रता भवति ध्यानं 'एकाग्रचित्तनिरोधो ध्यान' मितिकृत्वा, तत् पुनरार्तं रौद्रं धर्म शुकुं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ।। नि. (१४६४) तत्थ य दो आइल्ला झाणा संसारवड्डणा भणिया ।
दुन्नि य विमुक्खहेऊ तेसिऽहिगारो न इयरेसिं ।। वृ- 'तत्थ उ दो आइल्ला' गाथा निगदसिद्धा। साम्प्रतं यथाभूतो यत्र यथावस्थितो यच्च ध्यायति तदेतदभिधित्सुराहनि. (१४६५) संवरियासवदारा अव्वाबाहे अकंटए देसे ।
काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ।। वृ- “संवरियासवदार'त्ति संवृतानि-स्थगतानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, क्व ध्यायति? - 'अव्याबाधे अकंटए देसे'त्ति, अव्याबाधे-गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके-पाषाणकण्टकादिद्रव्यकण्टक-विकले 'देशे' भू भागे, कथं व्यवस्थितो ध्यायति ?-'काऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा' कृत्वा स्थिरं-निष्कम्पं (अव) स्थानं-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थं । नि. (१४६६) चेयणमयणं वा वत्थु अवलंबिउं घनं मनसा ।
झायइ सुअमत्थं वा दवियं तप्पज्जए वावि ॥ वृ-चेतनं-पुरुषाधि अचेतनं-प्रतिमादि वस्तु अवलम्ब्य-विषयीकृत्त्वा (त्य) घनं-दृढं मनसाअन्तः करणेन यत् ध्यायति, किं ? तदाह-'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्र-गणधरादिभिर्बद्धं अर्थं वा-तद्गोचरं, किंभूतमर्थमत आह-'दवियं तप्पज्जवे वावि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधर्मैरालोचयति, न त्वर्थं, यदा त्वर्थं न तदा सूत्रमिति गाथार्थः ।। अधुना प्रागुक्तचोद्यपरिहारायाहनि. (१४६७) तत्थ उ भणिज्ज कोईं झाणं जो मानसो परीणामो ।
तं न हवइ जिनदिटुं झाणं तिविहेवि जोगंमि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org