________________
अध्ययनं-५- [नि.१४५६]
२४७
सम्बन्धः, अट्ठविहंपि य कम्मं अरिभूतं च, ततश्चायमर्थः-यस्मात् ज्ञानवरणीयादि अरिभूतंशत्रभूतं वर्तते भवनिवन्धनत्वाच्चशब्दादचेतनं च तेन कारणेन तज्जयार्थ-कर्मजयनिमित्तं 'अब्भुट्ठिया उ'त्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपि तपो द्वादशप्रकारं संयम च सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्थाः- साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कार्योत्सर्गः कार्य एवेति गाथार्थः । तथा चाहनि. (१४५७) तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स ।
काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए । वृ-तस्स कसाया इति 'तस्य' प्रक्रान्तशत्रुसैन्यस्य कषायाः प्रागनिरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायकाः-प्रधानाः, 'काउस्सग्गमभग्गं करेंति तो तज्जयट्ठाए'त्ति काउस्सग्गंअभिभवकायोत्सर्ग अभग्नं-अपीडितं कुर्वन्ति साधवस्तस्तज्जयार्थं-कर्मजयनिमित्तं तपः संयमवदिति गाथार्थः ।। गतं मूलद्वारगाथायां विधानमार्गणाद्वारम्, अधुना कालपरिमाणद्वारावसरः,नि. (१४५८) संवच्छरमुक्कोसं अंतमुहृत्तं च (त) अभिभवुस्सग्गे । .
चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ॥ वृ- संवत्सरमुत्कृष्टं कालप्रमाणं, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति, 'अन्तोमुहुत्तं च' अभिभवकायोत्सर्गे अन्त्यं-जघन्यं कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं 'उवरि वोच्छत्ति उपरिष्टाद् वक्ष्याम इति गाथार्थः ।।
उक्तं तावदोघतः कालपरिमाणद्वारं, अधुना भेदपरिमाणद्वारमधिकृत्याहनि. (१४५९)उसिउस्सिओ अ तह उस्सिओ अ उस्सियनिसन्नओ चेव ।
निसनुस्सिओ निसन्नो निस्सन्नगनिसन्नओ चेव ।। वृ- 'उस्सिउस्सिओ' उच्छ्रितोच्छ्रितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सृतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः ।। नि. (१४६०) निवनुस्सिओ निवन्नो निवन्ननिवनगो अ नायव्यो ।
एएसिं तु पयाणं पत्तेय परुवणं वुच्छं । वृ-'निसनुस्सिओ निवन्नो' निषण्णोत्सृतः निष (व)ण्णः निषण्ण निषण्ण ज्ञातव्यः, एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थं तु उपरिष्टाद्वक्ष्यामः नि. (१४६१) उस्सिअनिसन्नग निवन्नगे य इक्किक्कगंमि उ पयंमि ।
दव्वेण य भावेण य चउक्कभयणा उ कायव्वा ॥ वृ- 'उस्सिय' उत्सृतो निषण्णः निषण्णनिषण्णेषु एकैकस्मिन्नेव पदे ‘दव्वेण य भावेण य चउक्कभयणा उ कायव्वा' द्रव्यत उत्सृत ऊर्द्धस्थानस्थः भावत उत्सृत धर्मध्यानशुकूध्यायी, अन्यस्तु द्रव्यत उत्सृतः ऊद्धस्थानस्थः न भावतः उत्सृतः ध्यानचतुष्टयरहितः कृष्णादिलेश्यागत परिणाम इत्यर्थः, अन्यस्तु न द्रव्यत् उत्सृतः नो स्थानस्थः, भावत उत्सृतः, शुकुध्यायी अन्यस्तु न द्रव्यतो नापि भावत इत्ययं प्रतीतार्थं एवमन्यपदचतुर्भङ्गिका अपि वक्तव्याः ॥
इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org