SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३४ आवश्यक-मूलसूत्रम् -२- ४/३१ नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-'केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतंतथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह-‘पडिपुग्नं'ति प्रतिपूर्णमपवर्गप्रापकैगुणैर्भूतमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भविष्यतीत्यत आह-'नेयाउयंति नयनशीलं नैयायिकं, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-संकीर्णनाक्षेपेणनैयायिकं भविष्यति इत्यतआह-‘संसुद्धं ति सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपिकथञ्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा) भविष्यतीत्यत आह-'सल्लगत्तणं'ति कृन्ततीति कर्तनं शल्यानि-मायादीनि तेषां कर्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थे त्वाह_ 'सिद्धिमगं मुत्तिमगं' सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धार्गः सिद्धिमार्गः, मोचनं मुक्तिःअहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधकमितिभावना, अनेन च केवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह, विप्रतिपत्तिनिरासार्थमाह-'निजाणमगं निव्वाणमगं' यान्ति तदिति यानं 'कृत्यल्युटो बहुलं' इति वचनात् कर्मणि ल्युट, निरुपम यानं निर्यानं, ईषत्प्राग्भाराख्यं मोक्षपदमित्यर्थः तस्य मार्गो निर्याणमार्ग इति, निर्याणमार्गः-विशिष्टनिर्वाणप्राप्तिकारणमित्यर्थः, अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्णयनिरासमाह, निवृतिनिर्वाणं-सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गो निर्वाणमार्ग इति, निर्वाणमार्गः परमनिवृतिकारणमिति हृदयं, अनेन च निःसुखदुःख मुक्तात्मान इति प्रतिपादनपरदुर्णयनिरासमाह, निगमयन्नाह-इदं च "अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं" अवितथं-सत्यं अविसन्धि-अव्यवच्छिन्नं,सर्वदा अवरविदेहादिषु भावात्, सर्वदुःखप्रहीणमार्ग-सर्वदुःखप्रहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतंपरार्थकरणद्वारेणस्य चिन्तामणित्वमुपदर्शयन्नाह-“एत्थट्टि, (इत्थंडि) या जीवा 'सिझंति'त्ति ‘अत्र' नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं प्राप्नुवन्ति 'बुझंती ति बुध्यन्ते केवलिनो भवन्ति 'मुच्चंति'त्ति मुच्यन्ते भवोपग्राहिकर्मणा ‘परिनिव्वायंति'त्ति परि-समन्तात् निर्वान्ति, किमुक्तं भवति ? - सव्वदुक्खाणमंतं करिंति'त्ति सर्वदुःखानां शारीरमानसभेदानां अन्तं-विनाशं कुर्वन्तिनिर्वत्त-यन्ति । इत्थभिधायाधुनाऽत्र चिन्तामणिकल्पे कर्ममलप्रक्षालनसलिलौघं श्रद्धानमाविष्कुर्वनाह__ मू. (३२) तं धम्मं सद्दहामि पत्तियामि रोएमिफासेमि अनुपालेमि, तं धम्म सद्दहंतो पत्तिअंतो रोयंतो फासंतो अनुपालंतो तस्स धम्मस्स अब्भुट्टिओमि आराहणाए विरओमि विराहणाए असंजम परिआणामि संजमं उवसंपञ्जामि अबंभं परिआणामि बंभं उवसंपञ्जामि अकप्पं परियाणामि कप्प उवसंपज्जामि अन्नाणं परिआणामि नाणं उवसंपजामि अकिरियं परियाणामि किरियं उवसंपज्जामि मिच्छत्तंपरियाणामिसम्मत्तं उवसंपजामि अबोहिं परियाणामिबोहिं उवसंपज्जामिअमग्गं परियाणामि मणं उवसंपन्जामि । वृ- य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्म श्रद्दध्महे (धे) सामान्येनैवमयमिति 'पत्तियामि'त्ति प्रतिपद्यामेह (घ) प्रीतिकरणद्वारेण 'रोएमि'त्ति रोचयामि, अभिलाषातिरेकेणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy