SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ आवश्यक-मूलसूत्रम् -२- २/६ दिट्टत्ति, तहा अंधकारेसयणिज्जगयाए गब्भप्पभावेणयअंतंसप्पंपासिऊणंरन्नोसयणिज्जे निगया बाहाचडाविया भणिओय-एस सप्पोवञ्वइ, रन्नाभणियं-कहं जाणसि?,भणइ-पेच्छामि, दीवएण पलोइओ, दिट्ठो यसप्पो, रन्ना चिंता गब्भस्स एसो अइसयप्पहावो जेन एरिसे तिमिरांधयारे पासइ, तेण पासोत्ति नामं कयं । इदानीं वद्धमाणो, तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, तत्थ सव्वेवि नाणाइगुणेहिं वड्डइत्ति विसेसो पुन नि.(१०९१/२) वड्डइनायकुलंति अतेन जिनो वद्धमाणुत्ति ।। वृ- गब्भगएण भगवया नायकुलं विसेसेण धनेन वड्डियाइयं तेन से नामं कयं वद्धमाणेत्ति, गाथार्थः ।। एवमेवता ग्रन्थेन तिस्रोऽपि मूलसूत्रगाथा व्याख्याता इति ।। अधुना सूत्रगाथैवमू. (७) एवंमए अभिथुआ विहुयस्यमला पहीणजरमरणा। चउवीसंपि जिनवरा तित्थयरा मे पसीयंतु ॥ वृ- ‘एवम्' अनन्तरोक्तेन प्रकारेण ‘मए' इत्यात्मनिर्देशमाह, ‘अभिष्टुता' इति आभिमुख्येन स्तु अभिष्टुता इति, स्वनामभिः कीर्तिता, इत्यर्थः, किं विशिष्टास्ते? - 'विधूतरजोमलः' तत्र रजश्च मलश्च रजोमलौ विधूतौ-प्रकाम्पितौ अनेकार्थत्वाद्वा अपनीतौ रजोमलौ यैस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो भण्यते पूर्वबद्धं तु मल इति, अथवा बद्धं रजः निकाचितं मलः, अथवेर्यापथं रजः साम्परायिकं मल इति, यत एवैवम्भूता अतएव प्रक्षीणजरामरणाः, कारणाभावादित्यर्थः, तत्र जरा-वयोहानिलक्षणा मरणंतु-प्राणत्यागलक्षणं, प्रक्षीणेजरामरणेयेषां तेतथाविधाश्चतुर्विंशतिरपि, अपिशब्दात्तदन्येऽपि, 'जिनवराः' श्रुतादिजिनप्रधानाः, तेच सामान्यकेवलिनोऽपि भवन्ति अत आह-तीर्थकरा इति, एतत्समानं पूर्वेण, 'मे' मम, किं ? - ‘प्रसीदन्तु' प्रसादपरा भवन्तु, स्यात 'क्षीणक्लेशत्वान्न पूजकानां प्रसाददास्ते हि । तच्चन यस्मात्तेन पूज्याः क्लेशक्षयादेव ।। यो वस्तुतः प्रसीदति रोषमवश्यं स याति निन्दायाम । सर्वत्रासमचितश्च सर्वहितदः कथं स भवेत ।। तीर्थकरास्त्विह यस्माद्रागद्वेषक्षयात्रिलोकविदः । स्वात्मापरतुल्यचित्ताश्चातः सन्दिः सदा पूज्याः ।। शीतार्दितेषु च यथा द्वेषं वह्निर्न याति रागं वा । नाऽऽह्वयति वा तथाऽपि च तमाश्रिताः स्वेष्टमश्नुवते ।। तद्वतीर्थकरान ये त्रिभुवनभावप्रभावकान भक्त्या । समुपाश्रिता जनास्ते भवशीतमपास्य यान्ति शिवम ।। एतदुक्तं भवति-यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानुदिश्याचिन्त्यचिन्तामणिकल्पानन्तः करणशुद्ध्या अभिष्टवकर्तृणां तत्पूर्विकैवाभिलषितफलावाप्तिर्भवतीति गाथार्थःमू. (८) कित्तियवंदियमहिआ जेए लोगस्स उत्तमा सिद्धा । __ आरुगबोहिलाभं समाहिवरमुत्तमं दितु ।। वृ- इयमपि सूत्रगाथैव, अस्या व्याख्या-कीर्तिताः-स्वनामभिः प्रोक्ताः वन्दिताः-त्रिविधयोगेन सम्यक्स्तुताः मयेत्यात्मनिर्देशे, महिता इति वा पाठान्तरमिदं च, महिताः- पुष्पादिभिः पूजिताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy