SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - --४ [ नि. १२७३ ] आहारगुत्ते अविभूसियप्पा, इत्थिं न निज्झाइन संथवेज्जा । बुद्धो मुनी खुडकहं न कुज्जा, धम्मानुपेही संधए बंभचेरं ।। जे सद्दस्वरुवंरसगंधैमागए, फासे य संपप्प मणुन्नपावए । गिहीपदोसं न करेज पंडिए, स होइ दंते विरए अकिंचणे || गाथाः पञ्च, आसां व्याख्या- ईरणम् ईर्ष्या, गमनमित्यर्थः, तस्यां समितः - सम्यगित ईर्यासमितः, ईर्यासमितता प्रथमभावना यतोऽसमितः प्राणिनो हिंसेदतः सदा यतः सर्वकालमुपयुक्तः सन् 'उवेह भुंजेज व पानभोयणं' 'उवेह' त्ति अवलोक्य मुञ्जीत पानभोजनं, अनवलोक्य भुञ्जानः प्राणिनो हिंसेत, अवलोक्य भोक्तव्यं द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, आदाननिक्षेपौपात्रादेर्ग्रहणमोक्षौ' आगमप्रसिद्धौ जुगुप्सति करोत्यादाननिक्षेपजुगुप्सकः, अजुगुप्सन् प्राणिनो हिंस्यात् तृतीयभावना, संयतः साधुः समाहितः सन् संयमे 'मणोवइ' त्ति अदुष्टं मनः प्रवर्तयेत्, दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपि पञ्चमी भावना, गताः प्रथमव्रतभावनाः द्वितीयव्रतभावनाः प्रोच्यन्ते- 'अहस्ससच्चे' त्ति अहास्यात् सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात्, अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य पर्यालोच्य भाषेत, अन्यथाऽनृतमपि ब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत्, स इत्थम्भूतो दीर्धरात्रंमोक्षं समुपेक्ष्य - सामीप्येन द्रष्टा (दृष्ट्वा ) 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधदिभ्योऽनृतभाषणादिति भावनात्रयं, गता द्वितीयव्रतभावनाः १६१ तृतीय व्रत भावनाः प्रोच्यन्ते 'स्वयमेव ' आत्मनैव प्रभुं प्रभुसंदिष्टं वाऽधिकृत्य अवग्रहयाञ्चायां प्रवर्तते अनुविचिन्त्यान्यन्थऽदत्तं गृह्णीयात् प्रथमभावना, 'घडे मइमं निसम्म 'त्ति तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमान् निशम्य - आकर्ण्य प्रतिग्रहदातृवचनमन्यथा तददत्तं गृह्णीयात्, परिभोग इति द्वितीया भावना, 'सइभिक्खु उग्गहं' ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं संगृह्णीयात्, तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम्, अन्यथाऽदत्तं गृह्णीयात् चतुर्थी भावना, याचित्वा साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयव्रतविराधनेति पञ्चमी भावना, उक्तास्तृतीयव्रतभावनाः साम्प्रतं चतुर्थव्रतभावनाः प्रोच्यन्ते - ' आहारगुत्ते ' त्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात् प्रथमा भावना, अविभूषितात्मा स्याद् - विभूषां न कुर्याद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न संथवेज्ज' त्ति न स्यादिसंसक्तां वसतिं सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः - अवगततत्त्वः मुनिः साधुःक्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधकः स्यात् पञ्चमी भावना, 'धम्म (धम्मानु) पेही संघए बंभचेरं' ति निगदसिद्धम्, उक्ताश्चतुर्थव्रतभावनाः - पञ्चमव्रतभावनाः प्रोच्यन्ते यः शब्दरूपरसगन्धानागतान्, प्राकृतशैल्याऽलाक्षणिकोऽनुस्वारः, स्पर्शांश्च संप्राप्य मनोज्ञपापकान् - इष्टानिष्टानित्यर्थः, गृद्धिम् - अभिष्वङ्गलक्षणां, प्रद्वेषः प्रकटस्तं न कुर्यात् पण्डितः, स भवति दान्तो विरतोऽकिञ्चन इति, अन्यथाऽभिष्वङ्गादेःपञ्चममहाव्रतविराधना स्यात्, पञ्चापि भावनाः, उक्ताः पञ्चमहाव्रतभावनाः, अथवाऽसम्मोहार्थे यथाक्रमं प्रकटार्थाभिरेव 25 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy