SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० आवश्यक-मूलसूत्रम् -२- ४/२६ भवितव्यं १५, 'रोग'त्ति रोगः-ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते, गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक् सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठता रोगपरी षहजयः कृतो भवति १६, 'तणफास'त्ति अशुषिरतृणस्य ददिः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनां च, तत्र येषांशयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान्भूमावास्तीर्यसंस्तारोत्तरपट्टकौ चदर्भाणामुपरि विधाय शेरते, चौरापहतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्तजीर्णत्वात्, तथाऽपि तं परुषकुशदभादितृणस्पर्शे सम्यक्सहेत १७, 'मल'त्तिस्वेदवारिसम्पर्कात्कठिनीभूतंरजो मलोऽभिधीयते, सवपुषि स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिलषेत्-अभिलाषं कुर्यात् १८, 'सक्कारपरीसहे'त्ति सत्कारो-भक्तपानवस्त्रपात्रादीनां परतो लाभः पुरस्कार सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च, तत्रासत्कारितोऽपुरस्कृतो वान द्वेषं यायात् १९, ‘पन्न त्ति प्रज्ञायतेऽनयेति प्रज्ञा-बुद्ध्यतिशयः, तत्प्राप्तौ न गर्वमुद्हेत् २०, अन्नाणं ति कर्मविपाकजादज्ञानान्नोद्विजेत २१, असंमत्तं तिअसम्यक्त्वपरीषहः, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति असभ्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधर्मी पुण्यपापलक्षणौ यदि कर्मरुपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिकौ धर्माधर्मी ततः स्वानुभवत्वादात्मपरिणामरुपत्वात् प्रत्यक्षविरोधः देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके कार्याभावात् दुष्षमानुभावाच्च नदर्शनगोचरमायान्ति, नारकास्तु तीव्रवेदनार्ताः, पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीष-हजयो भवति, ‘वावीस परीसह'त्ति एते द्वाविंशतिपरीषहा इति गाथाद्वयार्थः ।। त्रयोविंशतिभिः सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि पुंडरीयकिरियट्ठाणं आहारपरिन्नपञ्चक्खाणकिरिया य । अनगारअद्दनालंद सोलसाइंच तेवीसं ।। गाथा निगदसिद्धैव ।। चतुर्विशतिभिर्देवैः, क्रिया पूर्ववत्, तानुपर्शयन्नाह ___भवनवनजोइवेमाणिया य दसअट्ठपंचएगविहा । इइचउवीसं देवा केइ पुन बेंति अरहंता ।। इयमपिनिगदसिद्धैव ।। पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत्, प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्चेमा: इरियासभिए सयाजए, उवेह भुंजेज व पानभोयणं । आयाणनिक्केवदुगुंछ संजए, समाहिए संजमए मनोवई ।। अहस्ससच्चे अनुवीइभासए, जे कोहलोहभयमेव वजए । स दीहरायं समुपेहिया सिया, मुणी हुमोसं परिवजए सया ।। सयमेव उग्गहज्जायणे, धडे मतिमंनिसम्म सइ भिक्खु उगहं । अनुन्नविय भुंजिज्ज पाणभोयणं, जाइत्ता साहभियाण उग्गहं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy