________________
१४८
आवश्यक- मूलसूत्रम् - २-४ / २४
पंचमओ जुज्झते छट्टो पुण तत्थिमं भणइ ।। एक्कं ता हरह धनं बीयं माह मा कुणह एवं । केवल हरह धनंती उवसंहारो इमो तेसिं ।। सव्वे माहत्ती वट्टइसो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमो सुक्कलेसाए ।। आदिल्लतिन्नि एत्थं अपसत्था उवरिमा पसत्था उ ।
अपसत्थासुं वट्टिय न वट्टियं जं पसत्थासुं ।। एसइयारो एयासु होइ तस्स य पडिक्कमामित्ति । पडिकूलं वट्टामी जं भणियं पुणो न सेवेमि ।।
प्रतिक्रमामि सप्तभिर्भयस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, तत्र भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि-आश्रया भयस्थानानि - इहलोकादीनि, तथा चाह सङ्ग्रहणिकारः - इहपरलोयादानमकम्हा आजीवमरणमसिलोए त्ति
Jain Education International
अस्य गाथाशकलस्य व्याख्या- 'इहरपलोअ ' त्ति इहलोकभयं परलोकभयं तत्र मनुष्यादिसजातीयादन्यस्मान्मनुष्यादेरेव सकाशात् भयमिहलोकभयं, विजातीयात्तु तिर्यग्देवादेः सकाशाद्भयं परलोकभयम्, आदीयत इत्यादानं धनं तदर्थ चौरादिभ्यो यद्भयं तदादानभयम्, अकस्मादेवबाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य रात्र्यादौ भयम् अकस्माद्भयं, 'आजीवे' ति आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं, मरणाद्भयं मरणभयं प्रतीतमेव, 'असिलोगो' त्ति अश्लाघाभयम्-अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्तत इति गाथाशकलाक्षरार्थः । । मदः -मानस्तस्य स्थानानि - पर्याया भेदा मदस्थानानि, इह च प्रतिक्रमामीति वर्तते, अष्टभिर्मदस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेष्वायोज्यं, कानि पुनरष्टौ मदस्थानानि ?, अत आह सङ्ग्रहणिकारःजाईकुलबलरुवे तवईसरिए सुए लाहे ।।
अस्य व्याख्या- कश्चिन्नरेन्द्रानिः प्रव्रजितो जातिमदं करोति, एवं कुलबलरुपतपएश्वश्रुतलाभेष्वपि योज्यमिति ।। नवभिर्ब्रह्मचर्यगुप्तिभिः, शेषं पूर्ववत्, ताश्चेमाःवसहिकहनिसिज्जिदिये कुडुंतरपुव्वकीलियपणीए ।
अमायाहारविभूसणा य नव बंभगुत्तीओ ।।
न
वृ- ब्रह्मचारिणा तद्गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं, स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां मोहनसंसक्तानां क्वणितध्वनिराकर्णवितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यं, न प्रणीतं भोक्तव्यं, स्निग्धमित्यर्थः नातिमात्राहारोपभोगः कार्यः, न विभूषा कार्या, एतानव ब्रह्मचर्यगुप्तय इति गाथार्थः । । श्रमणः प्राग्निरुपितशब्दार्थस्तस्य धमः-क्षान्त्यादिलक्षणस्तस्मिन् दशविधे- दशप्रकारे श्रमणधर्मे सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना । दशविधधर्मस्वरुपप्रतिपादनायाह
-
खंतीय मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे ।
For Private & Personal Use Only
www.jainelibrary.org