SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९६ आवश्यक मूलसूत्रम् - १ योगः, तत्र सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, स च कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः कुलकरवंशः प्रवाह इति समासः, तस्मिन्नतीते - अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाह नि. (१५० ) ओसप्पिणी इमीसे तइयाऍ समाऍ पच्छिमे भागे । पलिओवमट्ठभाए सेसंमि उ कुलगुरुप्पत्ती ॥ वृ- गमनिका-अवसर्पिण्यामस्यां वर्त्तमानायां या तृतीया समा- सुषमदुष्षमासमा, तस्याः पन्निमो भागस्तस्मिन् कियन्मात्रे पल्योपमाष्टभाग एव शेषे तिष्ठति सति कुवकरोत्पत्तिः संजातेति इति गाथार्थः ॥ नि. (१५१) अद्धभरहमज्झिल्लुतिभागे गंगासिंधुमज्झमि । इत्थ बहुमज्झदेसे उप्पन्ना कुलगरा सत्त ॥ वृ- गमनिका -अर्धभरतमध्यमत्रिभागे, कस्मिन् ? - गङ्गासिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्धं भरतं विद्याधरालयवैताढ्यपर्वतादारतो गृह्यत इति गाथार्थः । इदानीं कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाहपुव्वभवजम्मनामं पमाण संघयणमेव संठाणं । वणित्थियाउ भागा भवणोवाओ य नीई य ॥ नि. (१५२) वृ- गमनिका - कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यंः तथा नामानि प्रमाणानि तथा संहननं वक्तव्यं, एवशब्दः पूरणार्थः, तथा संस्थानं वक्तव्यं तथ वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याः कस्मिन् वयोभागे कुलकराः संवृत्ता इति, भवनेषु उपपातः भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनिकायोपपात-प्रदर्शनार्थं, तथ नीतिश्च या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थं तु प्रतिद्वारं वक्ष्यति ॥ तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाह नि. (१५३) नि. (१५४) - गमनिका - अपरविदेहे द्वौ वण्ग्वियस्य मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयाती, दृष्टवा स्नेहकरणं गजारोहण च नामनिर्वृत्तिः परिहाणिः गृद्धिः कलहः, 'सामत्थणं' देशीवचनतः पर्यालोचनं भण्यते, विज्ञापनाह इति गाथार्थः ॥ अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । कालगया इह भरहे हत्थी मनुओ अ आयाया || द सिनेहकरणं गयमारुहणं च नामनिप्फत्ती । परिहानि गेहि कलहो सामत्थण विन्नवण हत्ति ॥ भावार्थस्तु कथानकादवसेयः, अध्याहार्यक्रियायोजना च स्वबुद्धया प्रतिपदं कार्या, यथाअपरविदेहे द्वौ वणिग्वयस्यौ अभूतामिति, नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यं, अवरविदेहे दो मित्ता वाणिअया, तत्थेगो मायी एगो उज्जुगो, ते पुन एगओ चेव ववहरंति, तत्थेगो जो मायी सो तं उज्जुअं अतिसंधेइ, इतरो सव्वमगूहंतो सम्म सम्मेण ववहरति, दोवि पुन दाणरुई, ततो सो उज्जुगो कालं काऊण इहेव दाहिणड्डे मिहुणगो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy