SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - नि. १४०] नि. (१४०)उद्देसे १ निद्देसे २ निग्गमे ३ खित्त ४ काल ५ पुरिसे ६ अ । कारण ७ पच्चय ८ लक्खण ९ नए १० समोआरणा ११ ऽनुमए १२॥ नि. (१४१) किं १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ केच्चिरं १९ हवइ कालं । कइ २० संतर २१ मविरहिअं २२ भवा २३ गरिस २४ फासण २५ निरुत्ती २६ ॥ कृ-उद्देसो वक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशन मुद्देशः-सामान्याभिधानं अध्ययनमिति, निर्देशनं निर्देशः-विशेषाभिधानं सामायिकमिति, तथा निर्गमणं निर्गमः, कुतोऽस्य निर्गमणमिति वाच्यं, क्षेत्रं वक्तव्यं कस्मिन् क्षेत्रे ?, कालो वक्तव्यः कस्मिन् काले ?, पुरुषश्च वक्तव्यः कुतः पुरुषात् ?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति ?, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमुपदिष्टं ? को वा गणधराणां श्रवण इति, तथ लक्षणं वक्तव्यं श्रद्धानादि, तथा नया-नैगमादयः, तथा तेषामेव सववंतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च 'मूढणइयं सुयं कालियं तु' इत्यादि, ‘अनुमतं' इति कस्य व्यवहारादेः किमनुमतं सामायिकमिति, वक्ष्यति-'तवसंजमो अनुमओ' इत्यादि, किं सामायिकम् ? 'जीवो गुणपडिवण्णो' इत्यादि वक्ष्यति, कतिविधं सामायिकं ? 'सामाइयं च तिविहं सम्मत्तं सुयं तहा चरित्तं च' इत्यादि प्रतिपादयिष्या ते, कस्य सामायिकमिति, वक्ष्यति-'जस्स सामाणिओ अप्पा' इत्यादि, क्वसामायिकं, क्षेत्रादाविति, वक्ष्यति - 'खेत्तकाल दिसि गति भविय' इत्यादि, केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति-'सव्वगतं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे' इत्यादि, कथमवाप्यते ?, वक्ष्यति-'माणुस्सखित्तजाइ' इत्यादि, कियच्चिरं भवति ? कालमिति, वक्ष्यति -‘सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइ ठिती' इत्यादि, 'कति' इति कियन्तः प्रतिपद्यन्ते? पूर्वप्रतिपन्ना वेति वक्तव्यं, वक्ष्यति च-सम्मत्तदेसविरया पलियस्स असंखभागमित्ता उ' इत्यादि, 'सान्तरं' इति सह अन्तरेण वर्तते इति सान्तरं, किं सान्तरं निरंतरं वा ?, यदि सान्तरं किमन्तरं भवति?, वक्ष्यति ‘कालमनंतं च सुते अद्धापरियट्टगो य देसूणो' इत्यादि, 'अविरहितं' इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति -‘सुतसम्मअगारीणं आवलियासणखभाग' इत्यादि, तथा 'भवा' इति कियतो भवान्तुत्कृष्टतः खल्ववाप्यन्ते ‘सम्मत्तदेसविरता पलियस्स असंखभागमित्ता उ । अट्ठभवा उ चरित्ते' इत्यादि, आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, "तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होंति विरईए । एगभवे आगरिसा' इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृशन्तीति, वक्ष्यति-सम्मत्तचरणसहिआ सव्वं लोगं फुसे निरवसेसस' इत्यादि, निश्चिता उक्तिनिरुक्तिर्वक्तव्या-‘सम्मद्दिट्ठी अमोहो सोही सब्भाव दंसणे बाही' इत्यादि वक्ष्यति । अयं तावद्गाथाद्वयसमुदायार्थः, अवयवार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः । अत्र कश्चिदाह-पूर्वमध्ययनं सामायिकं तस्यानुयोगद्वारचतुष्टयमुपन्यस्तं, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्तौ, तथौधनामनिष्पन्ननिक्षेपद्वये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अत्र द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यं, अन्यथा तद्भहणमन्तरेण द्वारोपन्यासादय एवं न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्रं इह त्वानुगम Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy