________________
-
आवश्यक मूलसूत्रम्-१यथा-वन्दनमालेति ।
“यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि ।
लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ।।" अस्यायमर्थः - 'यद्' वस्तु तदर्थवियुक्तं' भावेन्द्राद्यर्थरहितं, तस्मिन्नभिप्रायदभिप्रायः, अभिप्रायो बुद्धिः, तद्बुद्ध्येत्यर्थः, करणिराकृतिः, यच्चेन्द्राद्याकृति लेप्यादिकर्म क्रियते' चशब्दात्तकृतिशून्यं चाक्षनिक्षेपादि 'तत्स्थापनेति' तच्चत्वरमल्पकालमितिपर्यायौ, चशब्दाद्यावद्रव्यभावि च, स्थाप्यत इति स्थाना, स्थापना चासौ मङ्गलं चेति समासः, तत्र स्वस्तिकादि स्थापनामङ्गलमिति।
“भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके ।
तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥" । अस्यायं भावार्थः - 'भूतस्य' अतीतस्य ‘भाविनो वा' एष्यतो 'भावस्य' पर्यायस्य 'कारणं' निमित्तं 'यद्' एव 'लोके' 'तद् द्रव्यम्' इति द्रवति गच्छति तास्तान्पर्यायान् क्षरति चेति द्रव्यं 'तत्त्वज्ञैः' सर्वहस्तीर्थकृभिरितियावत् सचेतनम् अनुपयुक्तपुरुषाख्यम् अचेतनं ज्ञशरीरादि तथाभूतमन्यद्वा 'कथितं' आख्यातं प्रतिपादितमित्यर्थः । तत्र द्रव्यं च तन्मङ्गलं चेतिसमासः, तच्च द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तत्र आगमतः खल्वागममधिकृत्य आगमापेक्षमित्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमतो मङ्गलशब्दाध्येता अनुपयुक्तो द्रव्यमङ्गलम् ‘अनुपयोगो द्रव्य' मितिवचनात्, तथा नोआगमतस्त्रिविधं द्रव्यमङ्गलं तद्यथाज्ञशरीरद्रव्यमङ्गल १ भव्यशरीरद्रव्यमङ्गलं २ शरीरभव्यशरीरव्यतिरिक्तं ३ द्रव्यमङ्गलमिति। तत्र ज्ञस्यशरीरं ज्ञशरीरं, शीर्यत इति शरीरं ज्ञशरीरमेव द्रव्यमङ्गलं ज्ञशरीरद्रव्यमङ्गलम्, अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेतिसमामः । एतदुक्तं भवति-मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलादितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमित, मङ्गलज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः । तथा भव्यो योग्यः, मङ्गलपदार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति, तस्य शरीरं भव्यशरीरं, भव्यशरीरमेव द्रव्यमङ्गलम्, अथवा भव्यशरीरं च तद्रव्यमङ्गलं चेतिसमास इति । अयं भावार्थःभाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगाधारत्वात् मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्गमिति, नोशब्दः पूर्ववत् । ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यममङ्गलं संयमतपोनियमक्रियानुष्ठाता अनुपयुक्तः, आगमतोऽनुपयुक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादिक्रियापरिणामं, तच्च उभयातिरिक्तं द्रव्यमङ्गलं, ज्ञशरीरद्रव्यमङ्गलवत्, तथा यद् भाविसंयमादिक्रियापरिणामयोग्यं तदपि उभयव्यतिरिक्तं, भव्यशरीरमङ्गलवत्, तथा यदपि स्वभावतः शुभवर्णगन्धादिगुणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वादू द्रव्यमङ्गलम्, अत्रापि नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् । ___भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः ।
सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥" अस्यायमर्थः - भवनं भावः, स हि वक्तुमिष्टक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति । तत्र भावतो मङ्गलं भावमङ्गलम्, अथवा भावश्चासौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org