SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ पीठिका- [नि. ] मङ्गलबुद्धया परिगृह्यमाणं मङ्गलं भवति, साधुवत्, तथाहि-साधुमङ्गलभूतोऽपि सन्मङ्गलबुद्धयैव गृह्यमाणः प्रशस्तचेतोवृत्ते व्यस्य तत्कार्यप्रसाधको भवति, यदा तु न तथा गृह्यते तदा कालुष्योपहतचेतसः सत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः । आह-यद्येवममङ्गलमपि मङ्गलबुद्धेः प्राणिनो मङ्गलकार्यकृप्राप्नोतीति, अनिष्टं चैतदिति, न, तस्य स्वरूपेणैवामङ्गलत्वात्, मङ्गलस्य च स्वबुद्धिसापेक्षस्य स्वकार्याभिनिवर्तकत्वादिति, तथाहि-यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्तते ततस्तत्फलमासादयति, न पुनरकाञ्चनं सत्काञ्चनबुद्धया, नाप्यतबुद्धयेति । मङ्गलत्रयापान्तरालद्वयमित्थममङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा हि मोकस्य त्रिधाविभक्दस्य अफन्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः। मङ्गलत्वं चाशेषशास्त्रस्य निर्जरार्थत्वात्, प्रयोगश्च-विवक्षितं शास्त्रं मङ्गलं, निर्जरार्थत्वात्, तपोवत्। कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात्, उक्तं च - __ "जं नेरइओ कम्म, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं ॥" स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात्, तस्मास्थितमेतत्शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेयमिति । ___ आह-मङ्गलमिति कः शब्दार्थः ? उच्यते, अगिरगिलगिवगिमगिइतिदण्डकधातुः, अस्य "इदितो नुम्धातोः" इति नुमि विहिते औणादिकालचूप्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गयते हितमनेनेति मङ्गलं, मझ्यते अधिगम्यते साध्यत इतियावत्, अथवा मङ्गेतिधर्माभिधानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे “आतोऽनुपसर्गे कः" इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते “आतो लोप इटि च तिति" इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गलातीति मङ्गलं धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः । तच्च नामादिन चतुविधं, तद्यथा-नाममङ्गलं १ स्थापनामङ्गलं २ द्रव्यमङ्गलं ३ भावमङ्गलं ४ चेति । तत्र “यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं (च) नाम यादृच्छिकं च तथा ॥" अस्यायमर्थः - 'यद्' 'वस्तुनो' जीवाजीवादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, 'स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात्, ‘तदर्थनिरपेक्षम्' इति इन्द्रार्थनिरपेक्ष, कथम् ? तत्र गुणतोवर्तत इति, इन्दनादिन्द्रः ‘इति परमैश्वर्ये' इति तस्य परमैश्वययुक्तत्वात्, गोपालदारके तु तदर्थशून्यमिति, तता पर्यायैः - शऋपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किञ्चिद् यादृच्छिकं डित्थादिवत्; चशब्दात् यावद्रव्यभावि च प्रायस इति । यत्तु सूत्रोपदिष्टं “नामं आवकहियं" तत् प्रतिनियतजनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेतिसमासः, तत्र यत् जीवस्याजीवस्योभयस्य वा मङ्गलमिति नाम क्रियते तन्नाममङ्गलं, जीवस्य यथा -सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमल्लाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy