________________
आवश्यक मूलसूत्रम् - १
परिक्षयोत्तरकालं देशविरतिरवाप्यते पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, अनेनैव न्यायेन क्षपक श्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण -
६८
“सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होना । चरणोवसमखयाणं सागर संखंतरा हुंति ॥ एवं अपरिवडिए सम्मत्ते देवमनुयजम्मेसु । अन्नतरसेढिवज्जं एगभवेणं च सव्वाई | "
अभिहितं आनुषङ्गिकं, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, संजातो वाऽपैति, तानिहावरणरूपान् कषायान् प्रतिपादयन्नाह-पढमिल्लु० । अथवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात्' इति, इदानीं ते कषायाः के ? कियन्तः ? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं ? को वा खलु उपशमनादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराहनि. (१०८) पढमिल्लयाण उदए नियमा संजोयणा कसायाणं । सम्मद्दंसणलंभं भवसिद्धीयावि न लहंति ॥
वृ- उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसंबन्धा एवेति तत्र व्याख्या - प्रथमा एव प्रथमिल्लुकाः, देशीवचनतो जहा 'पढमिल्ला एत्थ घरा' इत्यादि, तेषां प्रथमिल्लुकानां - अनन्तानुबन्धिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविधातित्वात् क्षपणक्रमाद्वेति, उदयः- उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किम् ? - 'नियमात्' नियमेनेति, अस्य व्यवहितपदेन सार्धं संबन्धः, तं च दर्शयिष्यामः, इदानीं पुनः प्रथमिलुका एव विशिष्यते - किंविशिष्टानां प्रथमिल्लुकानां ? -कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाश्च ते कषायाश्चेति विग्रहः तेषामुदये, किम् ? - नियमेन सम्यक् - अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभः प्राप्तिः सम्यग्दर्शनलाभः तं भवे सिद्धियेषां ते भवसिद्धिकाः । आह-सर्वेषामेव भवे सति सिद्धिर्भवति ?, उच्यते, एवमेतत्; किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि न लभन्ते' न प्राप्नुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थः ॥
नि. (१०९)
बिइयकसायानुदए अपच्चक्खाणनामधेज्जाणं ।
सम्मद्दंसणलंभं विरयाविरइं न उ लहंति ॥
वृ- 'द्वितीया' इति देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, ‘कषाया' इति 'कष गतौ' इति कषशब्देन, कर्माभिधीयते, भवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, तेषां, 'उदयः' इति अस्य पूर्ववदर्थः, किंविशिष्टानां ? -‘अप्रत्याख्याननामधेयानां न विद्यते देशविरतिसर्वविरतिरूपं प्रत्याख्यानं येषु उदयप्राप्तेषु सत्सु ते अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां ते तथाविधाः तेषामुदये सति, किम् ? - सम्यग्दर्शनलाभं, भव्या लभन्ते इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org