________________
उपोद्घातः - [नि. १०७]
६७
एवं यथाप्रवृत्तिकरणतो जीवास्तथाविधकर्मस्थितिविचित्ररूपाश्चित्रा इति । पिपीलिकाश्रकीटिकाः, यथा तासां क्षितौ स्वाभावगमनं भवति १ तथा स्थाण्वारोहण २ संजातपक्षाणां च तस्मादप्युत्पतनं ३ स्थाणुमूर्धनि चावस्थानं ४ कासाञ्चित् स्थाणुशिरसः प्रत्यवसर्पणं ५ एवमिहापि जीवानां कीटिकास्वभावगमनवत् यथाप्रवृत्तकरणं, स्थाण्वारोहणकल्पं त्वपूर्वकरणं, उत्पतनतुल्यं त्वनिवर्त्तिकरणमिति, स्थाणुपर्यन्तावस्थानसदृशं तु ग्रन्ध्यवस्थानमिति, स्थाणुशिरसः प्रत्यवसर्पणसमानं तु पुनः कर्मस्थितिवर्धनमिति ३ ।
पुरुषदृष्टान्तो यथा - केचन त्रयः पुरुषा महानगरयियासया महाटवीं प्रपन्नाः, सुदीर्घमध्वानं अतिक्रामन्तः कालातिपातभीरवो भयस्थानमाढौकमानाः शीघ्रतरगतयो गच्छन्तः पुरस्तात् उभयतः समुत्खातकरवालपाणितस्करद्वयमालोक्य तत्रैकः प्रतीपमनुप्रयातः अपरस्तु ताभ्यामेव गृहीतः तथाऽपरस्तावतिक्रम्य इष्टं नगरमनुप्राप्त इति । एष दृष्टान्तोऽयमर्थोपनयः - एवमिह संसाराटव्यां पुरुषाः संसारिणस्त्रयः कल्प्यन्ते, पन्थाः कर्मस्थितिरतिदीर्घा, भयस्थानं तु ग्रन्थिदेशः, तस्करद्वयं पुना रागद्वेषौ, तत्र प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनः अनिष्ट-परिणामः सन् कर्मस्थितिमुत्कृष्टामासादयति, तस्करद्वयावरुद्धस्तु प्रबलरागद्वेषोदयो ग्रन्थिकसत्त्व इत्यर्थः, अभिलषितनगरमनुप्राप्तोऽपूर्वकरणतो रागद्वेषचौरी अपाकृत्य अनिवर्त्तिकरणेनावाप्त-सम्यग्दर्शन इति ४ । आह - स हि सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशत एवेति, अत्रोच्यते, उभयथापि लभते, कथम् ?, पथः परिभ्रष्टपुरुषत्रयवत् यथा हि कश्चित् पथि परिभ्रष्टः उपदेशमन्तरेणैव परिभ्रमन् स्वयमेव पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तापनष्टसत्पथो जीवो यथाप्रवृत्तकरणतः संसाराटव्यां परिभ्रमन् कश्चिद्गन्थिमासाद्य अपूर्वकरणेन च तमतिक्रम्य अनिवर्त्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादि निर्वाणपुरस्य पन्थानं लभते, कश्चित्परोपदेशात्, अपरस्तु प्रतीपगामी ग्रन्थिकसत्त्वो वा नैव लभते इति ५ ।
इदानीं ज्वरष्टान्तो यथा हि ज्वरः कश्चित् स्वयमेवापैति कश्चिद्भेषजोपयोगेन कश्चित्तु नैवापैति, एवमिह मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वमेवापैति कश्चित् अर्हद्वचनभेषजोपयोगात् अपरस्तु तदोषधोपयोगेऽपि नापैति, करणत्रययोजना स्वयमेव कार्या ६ । कोद्रवदृष्टान्तःयथा इह केषाञ्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति तथा केषाञ्चित् गोमयादिपरिकर्मतः तथा परेषां नापैति, एवं मिथ्यादर्शनभावोऽपि कश्चित्स्वमेवापैति कश्चिदुपदेशपरिकर्मणा अपरस्तु नापैति, इह च भावार्थः स हि जीवोऽपूर्वकरणेन मदनार्धशुद्धशुद्धकोद्रवानिव दर्शनं मिथ्यादर्शनसम्यग्मिध्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजति, ततोऽनिवर्त्तिकरणविशेषात्सम्यक्त्वं प्राप्नोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद् यथाप्रवृत्तकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिसंदर्शनत्ः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषलाभ इति ७ । इदानीं जलदृष्टान्तःयथा हि जलं मलिनार्धशुद्धशुद्धभेदेन त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरणतस्त्रिधा करोतीति, भावार्थस्तु पूर्ववदेव ८ । वस्त्रदृष्टान्तेऽप्यायोजनीयमिति गाथार्थः । प्रासङ्गिकमुच्यते एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वमितिस्थिति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org