SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४३० आवश्यक मूलसूत्रम्-१-१/२ सर्वमित्याद्यवयवपरिग्रह इति गाथार्थः ।। उक्तोऽनुगमः, सम्प्रति नयाः, ते च नैगमसङ्ग्रहव्यवहार ऋजुसूत्रशब्दसमभिरूढवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति, स्वरूपं चैतेषामधः सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तथा चाऽऽहनि. (१०५३) विजा चरणनएसुं सेससमोआरणं तु कायव्वं । . सामाइअनित्ती सुभासिअत्था परिसमत्ता । वृ-विजाचरणनएसुं'त्ति विद्याचरणनययोः ज्ञानक्रियानययोरित्यर्थः, 'सेससमोयारणं तु कायव्वं'ति शेषनयसमवतारः कर्तव्यः, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-तौ च वक्तव्यौ, सामायिकनियुक्तिः सुभाषितार्थी परिसमाप्तेति प्रकटार्थमिति गाथार्थः ॥ साम्प्रतं स्वद्वार एव शेषनयान्तविनाधिकृतमहिमानौ अनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतया विहितौ ज्ञानचरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाऽऽहनि. (१०५४) नायंमि गिण्हिअव्वे अगिण्हिअव्वंमि चेव अत्यंमि । जइअव्वेव इअ जो उवएसो सो नओ नामं ॥ वृ 'नायंमिति ज्ञाते सम्यक्परिच्छिन्ने 'गिव्हियव्वेत्ति ग्रहीतव्ये उपादेये अगिण्हियव्वंमित्ति अग्रहीतव्ये अनुपादेये हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्यागृहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैव व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते अत्यंमि'त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिकः ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादि-रुपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'जइअव्वमेत्ति अनुस्वारलोपाद् यतितव्यम् ‘एवम्' अनेन क्रमेणैहिकामुष्मिकफलप्राप्तयर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतदङ्गीकर्तव्यं, सम्यगज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तम् ___ “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञात एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम् “पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काहिति किं वा नाहिति छेय पावगं ? ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः “गीयत्थो य विहारो बितिओ गीयत्थमीसओ भणिओ। - एत्तो तइयविहारो नाणुण्णाओ जिनवरेहिं ॥१॥" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy