SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४१२ आवश्यक मूलसूत्रम्-१-१/२ तथा 'अभिगृह्य' अङ्गीकृत्य द्वे 'दिशौ' पूर्वां वोत्तरां वा दीयत इति वर्तते, तथा चरन्ती वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनः पर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्वधरादयो यावद् युगप्रधाना इति विहरन्ति, यथाक्रमश इति गुणोपक्षया तासु दिक्षु यथाक्रमेण दीयत इति, उक्तं च पुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा । जाए जिनादओ वा दिसाएँ जिनचेइयाई व् दिसाएँ जिणचेइयाई वा ॥१॥ इति गाथार्थः । द्वारत्रयं गतम्, अधुना कालादिद्वारत्रयमेकगाथयैवाभिधित्सुराह[भा.१८१] पडिकुट्ठदिणे वजिअ रिक्खेसु अ मिगसिराइ भणिएसुं। पियधम्मई गुणसंपयासु तं होइ दायव्वं ॥ वृ-प्रतिक्रुष्टानि-प्रतिषिद्धानि दिनानि-वासराः, प्रतिक्रुष्टानि च तानि दिनानि चेति विग्रहः, तानि चतुर्दश्यादीनि वर्जयित्वाऽप्रतिक्रुष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च "चाउद्दसिं पन्नरसिं वज्जेज्जा अट्टमिं च नवमिं च । छद्धिं च चउत्थि बारसिं च दोहंपि पक्खाणं ॥१॥" एतेष्वपि दिनेषु प्रशस्तेषु मुहूर्तेषु दीयते, नाप्रशस्तेषु, तथा 'ऋक्षेषु'नक्षत्रेषु च मृगशिरादिषु, 'उक्तेषु' ग्रन्थान्तराभिहितेषु, न तु प्रतिषिद्धेषु, उक्तं च - ... “मियसिरअद्दापूसो तिन्नि य पुव्वाइ मूलमस्सेसा । हत्थो चित्ता य तहा दह बुड्डिकराइं नाणस्स ॥१॥" (तथा)-'संझागयं रविगयं विड्डेरं सग्गहं विलंबिं च । राहुहयं गहभिन्नं च वजए सत्त नक्खत्तो ॥२॥ तथा प्रियधर्मादिगुणसम्पत्सु सतीषु 'तत्' सामायिकं भवति दातव्यमिति, उक्तं च___"पियधम्मो दढधम्मो संविग्गोऽवजभीरु असढो य । खंतो दंतो गुत्तो थिरव्वय जिइंदिओ उज्जू ॥१॥" विनीततस्याप्येता गुणसम्पदोऽन्वेष्टव्या इति गाथार्थः ।। साम्प्रतं चरमद्वारव्याचिख्या-सयाऽऽह[भा.१८२] अभिवाहारो कालिअसुअंमि सुत्तत्थतदुभएणं ति । दव्वगुणपज्जवेहि अ दिट्ठीवायंमि बोद्धव्यो ।। वृ- 'अभिव्याहरणम्' आचार्यशिष्ययोर्वचनप्रतिवचने अभिव्याहारः, स च 'कालिकश्रुते' आचारादौ ‘सुत्तत्थतदुभएणं ति सूत्रतः अर्थतस्तदुभयतश्चेति, इयमत्र भावना-शिष्येणेच्छाकारेणेदमङ्गाधुद्दिशत इत्युक्ते सतीच्छापुरस्सरमाचार्यवचनम् अहमस्य साधोरिदमङ्गमध्ययनुमुद्देशं वोदिशामि-वाचयामीत्यर्थः, आप्तोपदशपारम्यर्पख्यानपनार्थं क्षमाश्रमणानां हस्तेन, न स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते अ(त) थोत्कालिके, दृष्टिवादे कथमिति ?, तदुच्यते-'दव्वगुणपज्जवेहि य दिठीवायंमि बोद्धव्यो' द्रव्यगुणपर्यायैश्च दृष्टिवादे' भूतवादे बोद्धव्योऽभिव्याहार इति, एतदुक्तं भवति-शिष्यवचनारमाचार्यवचनमुद्दिशामि सूत्रतोऽर्थतश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy