________________
अध्ययनं-१ - [नि.१०२७]
४११
रिक्ख ६ गुणसंपया वि अ ७ अभिवाहारे अ ८ अट्ठमए ॥ वृ-इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनम्-आलोचनानयः, तथा विनयश्च पवधावनानुरागादिः, तथा 'क्षेत्रम' इक्षुक्षेत्रादि, तथा दिगभिग्रहश्च वक्ष्यमाणलक्षणः, कालश्चाहरादिः, तथा रिक्षसम्पत्-नक्षत्रसंपत् गुणसंपच्च गुणाः-प्रियधर्मादयः, अभिव्याहरणम् अभिव्याहारश्चाष्टमो नय इति गाथासमासार्थः ।। व्यासार्थं तु प्रतिपदं भाष्यकार एव सम्यग् न्यक्षेण वक्ष्यति, तथा चाऽऽद्यद्वारव्याचिख्यासयाऽऽह[भा.१७९] पव्वजाए जुगं तावइ आलोअणं गिहत्थेसुं ।
उवसंपयाइ साहुसु सुत्ते अत्थे तदुभए अ॥ वृ-प्रव्रज्यायाः-निष्क्रमणस्य यत् प्राणिजातं स्त्रीपुरुपनपुंसकभेदं 'योग्यम्' अनरूपं तदन्वेषणं, यदिति वाक्यशेषः, तावत्येवाऽऽलोचनाऽवलोकना वा, केषु?-'गृहस्थेषु गृहस्थविषय, इति, एतदुक्तं भवति-योग्यं हि सर्वोपाधिशुद्धमेव भवति, ततश्च तदन्वेषणेन सर्वस्यैव विधेः कस्त्वं ? को वा ते निर्वेदः ? इत्यादिप्रश्नादेराक्षेप इति, ततश्च प्रयुक्तालोचनस्य योग्यता:वधारणानन्तरं सामायिकं दद्यात्, न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः । एवं तावद् गृहस्थस्याकृतसामायिकस्य सामायिकार्थमालोचनोक्ता, साम्प्रतं कृतसामायिकस्य यतेः प्रतिपादयन्नाह उपसम्पदि साधुषु आलोचनेति वर्तते, सूत्रे अर्थे तदुभये च, इयमत्र भावना-सामायिकसूत्राद्यर्थ यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदाऽसावालोचनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, आह-अल्पं सामायिकसूत्रं, तत्कथं तदर्थमपि यतेरुपसम्पत् ?, तद्भावे वा कथं यतिः? कथं वा प्रतिक्रमणमन्तरेण शुद्धिरिति ?, अत्रोच्यते, मन्दग्लानादिव्याघाताद् विस्मृतसूत्रस्य यतेः सूत्रार्थमप्युपसम्पदविरुद्धैव, एष्यत्कालं वा दुष्षमान्तमालो क्यानागमतामर्षकं सूत्रमिति, तदभावेऽपि च तदा चारित्रपरिणामोपेतत्वादसौ यतिरेव, शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् तेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाथार्थः ॥
अधुनैकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह[भा.१८०] आलोइए विनीअस्स दिज्जए तं (पडि २) पसत्थखित्तंमि ।
___ अभिगिज्झ दो दिसाओ चरंति वा जहाकमसो । वृ-आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः,उक्तं च भाष्यकारेण
'अनुरत्तो भत्तिगओ अमुई अनुयत्तओ विसेसण्णू ।
उज्जुत्तगऽपरितंतो इच्छियमत्थं लहइ साहू ॥१॥ दीयते 'तत्' सामायिकं, सत्यापि न यत्र तत्र कचित्, किं तर्हि ?, 'प्रशस्तक्षेत्रे' इक्षुक्षेत्रादाविति, अत्राप्युक्तं
'उच्छुवणे सालिवणे पउमसरे कुसुमिए य वनसंडे ।
गंभीरसाणुणाए पयाहिणजले जिनघरे वा ॥१॥ देज्ज न उ भग्गझामियसुसाणसुण्णासु सण्णगेहेसु । ___ छारंगारकयारामेन्झाईदव्वदुढे वा ॥२॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org