________________
४०६
आवश्यक मूलसूत्रम् - १- १/२
पुनः द्विविधं द्विप्रकारं श्रुतकरणं नाश्रुतकरणं च श्रुतकरणमिति श्रुतस्य जीवभावत्वाच्छ्रुतभावकरणं, नाश्रुतभावकरणं च गुणकरणादि, चशब्दस्य व्यवहितः सम्बन्ध इति गाथार्थः ॥ साम्प्रतं जीवभावकरणेनाधिकार इति तदेव यथोद्दिष्टं तथैव भेदतः प्रतिपिपादयिषुराहनि. (१०२०) बद्धमबद्धं तु सुअं बद्धं तु दुवालसंग निद्दिवं । तव्विवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥
वृ- इह बद्धमबद्धं तु श्रुतं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -लौकिकलोकोत्तरभेदमिदमेवमिति, तत्र पद्यगद्यबन्धनाद् बद्धं शास्त्रोपदेशवत्; अत एवाह-वद्धं तु द्वादशाङ्गम्आचारादि गणिपिटकं निर्दिष्टं, तुशब्दस्य विशेषर्णार्थत्वाल्लोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयमिति, तद्विपरीतमबद्धम् लौकिकलोकोत्तरभेदमेवावसेयमिति, निषीथमुच्यते, प्रकाशपाठात् प्रकाशेपदेशत्वाच्चानिषीथमिति गाथार्थः । साम्प्रतमनिषीथनिषीथयोरेव स्वरूपप्रतिपादनायाहनि. (१०२१) भूआपरिणयविगए सद्दकरणं तहेव न निसीहं । पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ।
वृ-भूतम् - उत्पन्नम् अपरिणतं नित्यं विगतं विनष्टं, ततश्च भूतापरिणतविगतानि, एतदुक्तं भवति- 'उप्पन्ने इ वा विगए इ वा धुवे इ वा' इत्यादि, शब्दकरणमित्यनेनोक्तिमाह, तथा चोक्तम्- 'उत्ती तु सद्दकरणे' इत्यादि, तदेवं भूतादिशब्दकरणं 'न निषीथ' मिति निषीथं भवति, प्रकाशपाठात् प्रकाशेपदेशत्वाच्च प्रच्छन्नं तु निषीथं रहस्यपाठाद् रहस्योपदेशाच्च निषीथनाम यथाऽध्ययनमिति गाथार्थः । अथवा निषीथं गुप्तार्थमुच्यते, “जहा - अग्गाणीए विरिए अत्थिनत्थिप्पवायपुव्वे य पाठो जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ जत्थ दीवायणसयं भुंजइ तत्थ एगो दीवायणो भुंजइ, एवं हम्मइ वि जाव जत्थ दीवायणसयं हम्म तत्थेगो दीवायणो हम्मइ," तथा चामुमेवार्थमभिधातुकाम आह
नि. (१०२२) अग्गेणीअंमि य जहा दीवायण जत्थ एग तत्थ सयं । जत्थ सयं तत्थेगो हम्म वा भुंजए वावि ॥
वृ- सम्प्रदायाभावान्न प्रतन्यत इति ॥ नि. (१०२३)
एवं बद्धमबद्ध आएसाणं हवंति पंचसया । जहएगा मरुदेवी अचंतत्थावरा सिद्धा ।।
वृ- 'एवम्' इत्यनन्तरोक्तप्रकारं 'बद्धं' लोकोत्तरं, लौकिकं त्वत्रारण्यकादि द्रष्टव्यम्, अबद्धां पुनरादेशानां भवन्ति पञ्च शतानि किम्भूतानि ?, अत आह-यथैका - तस्मिन् समयेऽद्वितीया 'मरुदेवी' ऋषभजननी 'अत्यन्तस्थावरा' इत्यनादिवनस्पतिकायादुद्धृत्त्य 'सिद्धा' निष्ठितार्था सञ्जातेति, उपलक्षणमेतदन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति, लौकिकमप्य ड्डिकाप्रत्यड्डिकादिकरणं ग्रन्थानिबद्धं वेदितव्यमिति गाथार्थः ॥ अत्र वृद्धसम्प्रदायः - आरुहए पवयणे पंच आएससयाणि जाणि अनिबद्धाणि, तत्थेगं मरुदेवा नवि अंगे न उवंगे पाठो अत्थि जहा-अच्चंतं थावरा होइऊण सिद्धत्ति, विइयं सयंभुरमणे समुद्दे मच्छाणं पउमपत्ताण य सव्वसंठाणाणि अत्थि वलयसंठाणं मोत्तु, तइयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org