SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१ - [ नि. १००९] ३९३ सन्तो यतस्तेनार्हदादिपूर्वानुपूर्वी क्रम इति गम्यते, अत एव चार्हतामम्भर्हितत्वं, कृतकृत्यत्वं चाल्पकालव्यवहितत्वात् प्रायः समानमेव, तथा अर्हन्नमस्कार्यत्वमप्यसाधनम्, अर्हन्नमस्कारपूर्वकसिद्धत्वयोगेनार्हतामपि वस्तुतः सिद्धनमस्कार्यत्वात् प्रधानत्वादिति भावना, आह-यद्येवमाचार्यादिस्तहिं क्रमः प्राप्तः, अर्हतामपि तदुपदेशेन संवित्तरिति, अत्रोच्यते, न, इहार्हत्सिद्धयोरेवायं वस्तुतस्तुल्यवलयोर्विचारः श्रेयान् परमनायकभूतत्वाद्, आचार्यास्तु तत्परिषत्कल्पा वर्तन्ते, नापि कश्चित् परिषदं 'प्रणम्य' प्रनामं कृत्वा ततः प्रणमति राज्ञ इत्यतोऽचोद्यमेतदिति गाथार्थः । उक्तं क्रमद्वारम् अधुना प्रयोजनफलप्रदर्शनायेदमाहनि. (१०१०) इत्थ य पओअणमिणं कम्मखंओ मंगलागमो चेव । इहलोअपारलोइअ दुविह फलं तत्थ दिट्ठता ॥ 1 वृ- 'अत्र च ' नमस्कारकरणे प्रयोजनमिदं यदुत करणकाल एवाक्षेपेण 'कर्मक्षय ः ' ज्ञानावरणीयादिकर्मापगमः, अनन्तपुद्गलापगममन्तरेण भावतो नकारमात्रस्याप्यप्राप्तेरित्यादि भावितं, तथा मङ्गलागमश्चैव यः करणकालभावीति तथा कालान्तरभावि पुनरैहलौकिकपारलौकिकभेदभिन्नं ‘द्विविधं फलं' द्विप्रकारं फलं, 'तत्र दृष्टान्ताः' वक्ष्यमाणलक्षणा इति । नि. (१०११) इह लोइ अत्यकामा २ आरुग्गं ३ अभिरई ४ अ निष्फत्ती ५ । सिद्धी अ ६ सग्ग ७ सुकुलप्पच्चायाई ८ अ परलोए ।। वृ- इह लोकेऽर्थकामौ भवतः, तथाऽऽरोग्यं भवति नीरुजत्वमित्यर्थः, एते चार्थादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाह-अभिरतिश्च भवति, आभिमुख्येन रतिः - अभिरतिः इह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वान्निष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा 'सिद्धिश्च' मुक्तिश्च तथा स्वर्गः सुकुलप्रत्यायातिश्च परलोक इत्यामुष्मिकं फलं ।। इह च सिद्धिश्चेत्यादिक्रमः प्रधानफलापेक्ष्युपायख्यापनश्च (नार्थः), तथाहि - विरला एवैकभवेन सिद्धिमासादयन्ति, अनासादयन्तश्चाविराधकाः स्वर्गसुकुलोत्पत्तिमन्तरेण नावस्थान्तरमनु भवन्तीति गाथार्थः ॥ साम्प्रतं यथाक्रममेवार्थादीनाधिकृत्योदाहरणानि प्रतिपादयन्नाह नि. (१०१२ ) इहलोगंमि तिदंडी १ सादिव्वं २ माउलिंगवण ३ मेव । परलोइ चंडपिंगल ४ हुंडिअ जक्खो ५ अदिता ।। वृ- अक्षरगमनिका सुज्ञेया, भावार्थः कथानकेभ्योऽवसेयः, तानि चामूनि - नमोक्कारो अत्थावहो, कहंति ?, उदाहरणं जहा एगस्स सावगस्स पुत्तो धम्मं न लए; सोऽवि सावओ कालगओ, सो विवहाराहओ एवं चैव विहरइ । अन्नया तेसिं घरसमीवे परिव्वायओ आवासिओ, सो तेन समं मित्तिं करेइ, अन्नया भणइ - आणेहि निरुवहयं अणाहमडयं जओ ते ईसरं करेमि, तेन मग्गिओ लद्धो उब्बद्धओ मनुस्सो, सो मसाणं नीओ, जं च तत्थ पाउग्गं । सोय दारओ पियरिं नमोक्कारं सिक्खाविओ, भणिओ य-जाहे बीहेजसि ताहे एयं पढिजसि, विज्जा एसा, सो तस्स मयगस्स पुरओ ठविओ, तस्स य मयगस्स हत्थे असी दिन्नो, परिव्वायओ विजं परियत्तेइ, उट्टिउमारद्धो वेयालो, सो दारओ भीओ हियए नमोक्कारं परियट्टेइ, सो वेयालो पडिओ, पुणोऽवि जवेइ, पुणोवि उडिओ, सुठुतरागं परियट्टेइ, पुणोऽवि पडिओ, तिदंडी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy